पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/49

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८

कुमारसम्भवम्

आवर्जितजटामौलिविलम्बिशशिकोटयः ।
रुद्राणामपि मुर्धानः क्षत हुंकारशंसिनः ॥ २६ ॥
लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।
अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २७ ॥
तद्ब्रूत वत्साः किमितः प्रार्थयध्वं समागताः ।
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥ २८ ॥


     आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मोलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । मूर्धानः क्षतं हुङ्कारं शंसन्तीति तथोक्ताः । हुङ्कारक्षत्यनुमापका इत्यर्थः । हुङ्कारशस्त्रा हि रुद्रा इति भावः ॥ २६ ॥
     लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकात्प्रबलतरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरत्सर्गाः सामान्यशास्त्राणि `मा हिंस्यात्' इत्येवमादीनि । अपोद्यन्त एमिरित्यपवादैः `गामालभेत' इत्यादिभिर्विशेषशास्त्रैरिव किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः । कृतविषयसंकोचरुपबाधा इत्यन्यत्र । `विषयसंकोच एव बाधः' इत्याचार्याः । निषेधशास्त्रस्य वेदिकहिंसापरिहारेण लौरिकमात्रे व्यवस्थापनाद्विषयसंकोच इत्यलमतिगहनावगाहनेन ॥ २७ ॥
     तदिति ॥ तत्तस्मात्कारणात् । हे वत्साः पुत्रकाः । `वत्सस्त्वर्भकपुत्राद्योर्वर्षे वत्सं तु वक्षसि' इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते । संभूयागताः समागता