द्वितीयः सर्गः ।
ततो मन्दानिलोद्धूतकमलाकरशोभिना । गुरुं नेत्रसहस्त्रेण (४)नोदयामास (५) वासवः ॥ २९ ॥ स (६) द्विनेत्रं हरेश्चक्षुः (७)सहस्त्रनयनाधिकम् । वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥ ३० ॥ एवं (८)यदात्थ भगवन्नामृष्ट नः परैः पदम् ।
इतो मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोक- रक्षणे यूयमेव कर्तार इत्याह- मयि लोकानां सृष्टी रक्षा युष्मास्ववस्थिता । अतस्तदर्थमपि नास्ति मदपेक्षेत्यर्थः ॥ २८ ॥
तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृह-
स्पतिम् । "गुरू गीष्पतिपित्राद्यौ" इत्यमरः । मन्दानिलोद्धूतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्रेण नोदयामास प्रेरयामास। सहस्रग्रहणमास्थातिश- यार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते ॥ २९ ॥
स इति ॥ हरेरिन्द्रस्य। "इन्द्रो दुक्ष्च्यवनो हरिः" इति
हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तद- गोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद् द्विनेत्रम् । प्रसि- द्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । चक्षुष्ट्वारोपस्य प्रकृतोपयोगात् परिणामालङ्कारः॥ स वाचस्पतिः ॥ कस्का- दित्वादलुक्सत्वे । "षष्ठ्याः पतिपुत्र-" इत्यादिना सत्व- मिति स्वामी तन्न छन्दोविषयत्वात् ॥ प्राञ्जलिः सन्। जल- जासनं ब्रह्माणमिदमुवाच ॥ ३० ॥
एवमिति ॥ हे भगवन् षड्गुणैश्वर्यसम्पन्न । यदात्थ
"कृतव्यावृत्तयः परैः" (२/२७) इति यद् व्रवीषि ॥ ब्रुवः पञ्चानाम्-" इतयादिनाहादेशः । "वर्तमानसामीप्य वर्तमा
(४)चोदयामास, प्रेरयामास। (५)इन्द्रः । (६)द्विनेत्रः । (७)दशचक्षुःश्ताधिकम् । (८)यथा ।