ईसरे इन्द्रं सुरैः देवैः समं साचें अस्य जगदौखरस्य सम्बन्धि सत् सुन्दरं सदनं भवनं प्रवेशयामास प्रवेशितवान् ॥ ७ ॥
स इति । स सहस्र सहस्रसंख्यकानि नेत्राणि नयनानि यस्य तथोक्तः इन्द्रः। इन्द्रस्य सहस्रनेत्रत्वादिति भावः । घण्डिभृङ्प्रिमुखैः चण्डिश्चद्विप्रथातिभिः गरियैः गुरुतरैः । तथा विविधानि नानाप्रकाराणि स्वरूपाणि आकृतयः येषां तथोतः अनेकैः बहुभिः गणैः प्रमथदृग्दो:। सहेति पदमध्याहार्थम् । रत्नमय्यां मणिनिर्मितायां संदसि सदसि अधिष्ठितं स्थितं । शिवं हरं आलुलोके दृष्टवान् ॥ ८ ॥
अथ कपयंत्यदिभिस्त्रयोदशभिः शोकैः शिवं वर्पयति-
कपर्पति ॥ उदङ उत्क्षिप्य भुजङ्गरजुभिः संयतं तथा उल्लसद्भिः स्फुरद्भिः अतएव अहनां सर्पाणां ये इनाः स्वामिनः वासुकिप्रभृतयः महासर्या: तेषां मूर्धसु मस्तकेषु यानि रजनि तेषां अंभिः किरणैः भासुरं उषलं तथा मणयः उच्चैस्तरे प्रत्युवं पदं जटाजूटं दधानं बिभ्रतम्। अतएव