पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४ कुमारसम्भवे हेमतामरसताडितप्रिया तत्कराम्बुविनिमौलितेक्षणा। (५)ख व्यगाहत तरङ्गिणौमुमा (३)मौनपङक्तिपुनरुक्तमेखला॥ २६ ॥ तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् । नन्दने चिरमयुग्मलोचनः सस्पृहं (७)सुरवधूभिरैक्षितः ॥ २७ ॥ तत्र रममाणस्य त्यथः । तस्य शिवस्य प्रियाक्लमं प्रियायः सुरतश्रमम् आचचम जहार । यथा लाकं महानपि श्रम एकेन प्रियवादेनापैति तद्वद्दक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतक्लमो हत इत्यर्थः ॥ २५ ॥ हेमेति । उमा गौरी हेमतामरसेन कनककमलेन ताडितः प्रियः यया सा । तेन उत्थितस्य प्रियस्य कस्बना कराक्षिप्तम्भसा विनिमीलितेक्षणा मुकुलिताक्षी । मीन पत्या पुनरुक्ता द्विगुणिता मेखला यस्याः सा तथाभूता सतौ खे तरङ्गिणीं व्यगाहत । तत्र तत्र जलक्रीडामकरोदित्यर्थः ॥ २६ ॥ तामिति । अयुग्मानि लोचनानि यस्य सः अयुग्मलो चनः शम्वकः ॥ युग्मशब्दो विशेष्यनिघ्नोऽप्यास्त । ‘तस्मिन् युग्मासु संविशेत्” युग्मन्दैवे यथाशक्ति पित्रे युग्मांस्तथैव चै» इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनयाने पुलोमत- नया आचौ ॥ “पुलोम्नस्तु शची सुता” इति हरिवंशे । तस्याः पतकानाम् उचितैः पारिजातकुसुमैः तां प्रसाधयन् यलबुर्वन् (५) सा । (३) मौनपतिपुनरुतमेखलाम्। (७) सुरवधूभिरैक्षत, सुरबधूनिश्चितः ।