पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
कुमारसम्भवे

हेमतामरसताडितप्रिया
तत्कराम्बुविनिमौलितेक्षणा।
(५)[१]खे व्यगाहत तरङ्गिणौमुमा
(६)[२]मौनपङक्तिपुनरुक्तमेखला॥ २६ ॥
तां पुलोमतनयालकोचितैः
पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः
सस्पृहं (७)[३]सुरवधूभिरैक्षितः ॥ २७ ॥

तत्र रममाणस्य त्यथः । तस्य शिवस्य प्रियाक्लमं प्रियायः सुरतश्रमम् आचचम जहार । यथा लाकं महानपि श्रम एकेन प्रियवादेनापैति तद्वद्दक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतक्लमो हत इत्यर्थः ॥ २५ ॥

 हेमेति । उमा गौरी हेमतामरसेन कनककमलेन ताडितः प्रियः यया सा । तेन उत्थितस्य प्रियस्य कस्बना कराक्षिप्तम्भसा विनिमीलितेक्षणा मुकुलिताक्षी । मीनपत्या पुनरुक्ता द्विगुणिता मेखला यस्याः सा तथाभूता सतौ खे तरङ्गिणीं व्यगाहत । तत्र तत्र जलक्रीडामकरोदित्यर्थः ॥ २६ ॥

 तामिति । अयुग्मानि लोचनानि यस्य सः अयुग्मलोचनः शम्वकः ॥ युग्मशब्दो विशेष्यनिघ्नोऽप्यास्त । ‘तस्मिन् युग्मासु संविशेत्” युग्मन्दैवे यथाशक्ति पित्रे युग्मांस्तथैव चै» इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनयाने पुलोमतनया आचौ ॥ “पुलोम्नस्तु शची सुता” इति हरिवंशे । तस्याः पतकानाम् उचितैः पारिजातकुसुमैः तां प्रसाधयन् यलबुर्वन्


  1. सा ।
  2. मौनपतिपुनरुतमेखलाम्।
  3. सुरवधूभिरैक्षत, सुरबधूनिश्चितः ।