तेषु । भावः । तथा नवः प्रत्यग्राः अस्मृतमथनसमये इति अमृतविपुषः सुधाविन्दून् प्राप्तवत्स, मन्दरस्य मन्याचलस्य कटकेषु नितम्बेषु च अवसत् । एतेन मन्दरस्यनेकाडुताधारत्वामनोविनोदकत्वमुक्तम् ॥ २३ ॥
रावणेति। जगद्गुरुः । विश्रवसोऽपत्यं रावणदशकण्ठः । `” इति । वृत्तिविषये विश्रवस्शब्दस्य तस्यापत्यम्अण्प्रत्ययः रवणदेशः । रावणस्य ध्वनितात् कैलासोत्पाटनसमयश्चेडितात् भीतया तया पार्वत्या कण्ठसक्ताभ्यां मृदुबाहुभ्यां बन्धनं यस्य स तथाभूतः । एकनेत्रत्वात् एकपिङ्गलः कुवेरतस्य गिरौ कैलासे विशदाः निर्मलाः शशिप्रभाः चन्द्रिका: मिथैिव बुभुजे ॥ “निर्विशो भृतिभोगयोः’ इत्यमरः ॥ २४ ॥
तस्येति । जातु कदाचित् धूतचन्दनलतः कम्पितपटीरशाखः ॥ “समे शखालते” इत्यमरः । सह लवङ्गस्य केसरै: सलवङ्गकेसरः । “लवङ्ग देव कुसुमम्' इत्यमरः । विशेषणाभ्यां शैत्यसौरभ्ये दर्शिते । दक्षिणानिलः मलयमारुतः। चाटुकारः घट्टप्रयोगः । प्रियवाद इति यावत् । भावे घञ्॥ स एव मलयस्थलीषु मलयाचलप्रदेशेषु रतिः सुरतं यस्य तथोक्तस्य ।