पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अष्टमः सर्गः । १५ इत्यभौममनुभूय शङ्करः पार्थिवं च (८वनितासखः सुखम् । लोहितायति कदाचिदातपे (८)गन्धमादनगिरिं व्यगाहत ॥ २८॥ तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम्। दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणम् ॥ २६ ॥ चिरं सुरवधूभिः सस्पृहम् ईक्षितः । केन वा पुथ नायं लभ्यते इति साभिलाषदृष्ट इत्यर्थः । अत्र देवस्यानुकूलनायकत्व' देव्या: स्वाधीनपतिकाव चावसेयम् ॥ २७ ॥ इतीति । इति इयं शङ्करः वनितासखः सन् । भूमौ भवं भौमम् । न भौभम् अभौमं दिव्यं पृथिव्यां भवं पार्थिवं च सुखम् अनुभूय कदाचित् आतपे लोहितायति लोहितवर्षे भवति । अस्तङ्गते सवितरीत्यर्थः । “लोहितादिडाज्भ्यः वध्” इति क्यष्प्रत्ययः । गन्धमादनगिरिं व्यगाहत । पर्वत- मुद्दिश्य निहत इत्यर्थं । उद्देशक्रियां प्रति गिरेः कर्मत्वम् । यथाह भयकरः -----॥ ॥ २८ तत्रेति । तत्र गन्धमादने काञ्चनविकारः काञ्चनं सौवर्ण स तत् शिलातलं तत् आश्रयः यस्य स भगवान् नेत्रगम्यं aथसनम् । अर्थात् दर्शनयोग्यम् । भास्करं सूर्यम् । “दिवा- 'वभा– इत्यादिना टप्रत्ययः । अवलोक्य दक्षिणेतरभुजः यबा व्यपाश्रयः यस्याः ताम् । निजवामभुजमवष्टभ्योष वेष्टामित्यर्थः । सह धर्म चरतीति सहधर्मचारिणीं पत्नीं D थाजहर जगद ॥ २९ ॥ (८) दयितासखः । (e) गन्धमादनवनम्।