सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
कुमारसम्भवे


(१)[]पद्मकान्तिमरुणत्रिभागयो:
(२)[]संक्रमय्य तव नेत्वयोरिव।
संक्षये जगद्वि प्रजेश्वरः
संहरत्यहरसावहर्पतिः ॥ ३० ॥
सीकरव्यतिकरं मरीचिभिः
(३)[]दूरयत्यधनते विवखति ।
इन्द्रचापपरिवेषशून्यतां
(४)[]निर्भरास्तव पितुर्नजन्यमी ॥ ३१ ॥

 पद्मकातिमिति । असौ अङ्कां पति: अहर्पतिः सूर्यः । अहरादीनाम् “पत्यादिधूपसंख्यानम्’ इति रेफादेशः । पद्कान्तिं पद्मशोभभाम्। ऋतौयो भागः त्रिभागः । वृत्तिविषये पूरणार्थंख' संख्याया इत्युक्तम् । प्ररुणः विभागः ययोः तयोः अरुणोपान्तयोरिति भाग्यलक्षणोक्तिः । तव नेत्रयोः संत्रमय्येव । तदानों पञ्चानामविकासवेत्रयोस्तु विकासाचेयमुतप्रे खा। संक्षये प्रलयकाले प्रजेश्वरः प्रजापतिः जगदित्र । दिवसं संहरति । अत्र गच्छतीत्यर्थः ॥ ३० ॥

 सीकरति। विवस्तेजोऽस्यास्तीति विवस्वान् तस्लिम् विवस्वति शुभं मरीचिभिः ॥ सहार्थविवक्षायां वतीयतएखें विनापि सहशब्देन ठतया ॥ सीकरव्यतिकरं पयःकिरण स्म्यर्के दृश्यति दूरौघुवंति सति । हे अवनते पार्वति। अर तव पितुः भवत्पितुः हिमवतः निर्भराः प्रवाश्वः ॥ “प्रवाह निर्भरो झर:” इत्यमरः । इन्द्रचापं नानावर्णप्रभासमूधः तल परिवेषेण परिवेष्टनेन शून्यतां व्रजन्ति । आर्ककिरणसम्पर्वक्कतत्वदैन्द्रचापस्य तन्निवृत्त्वा निवृत्तिरित्यर्थ ॥ ३१ ॥


  1. पशुकान्तिमरुणान्तभागयोः ।
  2. सङ्गमय्य ।
  3. भृगयति ।
  4. निर्भराः प्रस्रवितुर्द्रजन्ति ते।