पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सप्तमः सर्गः । २३१ मेरोरुपान्तेष्विव वर्तमान मन्योन्यसंसक्तमहस्त्रियामम् ॥ ७६ ॥ तौ दम्पतो त्रिः परिणय वह्नि मन्योन्यसंस्पर्शनिमीलिताक्षौ । स कारयामास बघू' पुरोधा स्तस्मिन् समिद्धार्चिषि लाजमोक्षम् ॥८०॥ सा लाजधूमाञ्जलिमिष्टगन्धं गुरूप्रदेशाद्वदनं निनाय । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे॥ ८१ ॥ प्रदक्षिणेति । तन्मिथुनसुदर्चिष उन्नतध्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणाचकासे । किमिव। मेरोरुपान्तो षु परिसरेषु वर्तमानम् आवर्तमानम्। मेरु” प्रद चिणीकुर्वदित्यर्थः । अन्योन्येन संसक्त' सङ्गतम्। मिथुन- स्याप्येतद्विशेषणम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिव मिव । समाहारे हन्इ कवद्भवः ॥ ७८ ॥ ताविति । स पुरस्तादेव हितं विधत इति पुरोधाः पुरो हितोऽन्योन्यस्य संस्थशेन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दम्पती । कर्मभूतौ । जायाशब्दस्य दंभावो निपा- तितः ॥ वद्धि त्रिस्त्रिवारम् । `द्वित्रिचतुरैः सुच्” इति सुच् । परिषाय परितो नीत्वा प्रदक्षिणीकार्येत्यर्थः । नयते ईिक संक्षए । समिद्यार्चिषि दीप्तज्वाले तस्मिन् व बध लाजमोर्चा लाजविसर्गं कारयामपस । `क्रोरन्यतरस्याम् इति विकल्पादणिकतुः कर्मत्वम् ॥ ८० ॥ सेति । सा बधूः गुरोः पुरोधस उपदेशात इष्टः । घ्राणत- पैण इत्यर्थः । गन्धो यस्य तं लाजधूमाञ्जलिं वदनं निनाय ।