पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२२० कुमारसम्भवे वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥ ७७ ॥ प्रयुक्तपाणिग्रहणं यदन्यद् बधूवरां पुष्यति कान्तिमग्रम् । सान्निध्ययोगादनयोस्तदानों किं कथ्यते श्रीौरुभयस्य तस्य ॥ ७८॥ प्रदक्षिणप्रक्रमणात् कृशानो- रुदर्चिषस्तन्मिथुनं चकासे । तयोः बधूवरयोः मनोभवस्य वृत्तिरवस्थितिः समं विभक्त व अमीहतेवेत्यर्थः । प्रासिद्धस्यप्यमुरागसाम्यस्य सम्प्रति तत्- कार्यदर्शनात् पाणिसंस्पर्शवतत्वमुत्प्रेक्ष्यते । ननु कन्या तु प्रथमसङ्गमे खिचकरचरणा भवति पुमांस्तु रोमाञ्चितो भव तौति वाध्ययनेन विपरीतमुक्तमिति चेदेष दोषः । एभिः रनयोर्भावं परीक्षेतेति वाक्यशेष एभिरिति बहुवचनेन वेद रोमाञ्चग्रहस्य सकलसात्विकोपलक्षणत्वावगमेनानियमान् वधारणात् । अत एव रघुवंशेऽन्यथाभिधानात् स्खतिविरोध इत्यपास्तम् । तदेतद्रधुवंशसनविन्यां (७। २२) सुव्यक्तमव चम्। सात्विकास्तु `स्तम्भप्रलयरोमाञ्चः स्वेदो वैववधू। ठेवैखर्यमित्यष्टौ सात्विकाः परिकीर्तिता:’ इति । ७७ ॥ प्रयुक्तेति । यद्यस्मात्कारणात् प्रयुक्' याणिग्रह यत्र तत्तथोक्तमन्यद्धौकिकम्। वधूश्च वरश्च बधूवरम् । समाहरे इदं कवद्भावः । तदानीं पाणिग्रहणकालेऽनयोरुमाशिवयोः सानिध्ययोगात् सबिधिभावात् अणञ्चम् उत्तमं कान्तिं शोभां पुषति पुष्णाति तस्योभयस्योमामहेश्वररूपस्य मिथुनख भौ। किं कथ्यते । यत्प्रसादादन्यस्य शोभालाभस्तस्य शोभा किया बतष्य नेत्यर्थः । ‘‘विवाहसमये गौरीशिवौ बधवरावनुप्रविशे| ताम्” इत्यागमः ॥ ७८ ॥