पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
सप्तमः सर्गः ।

मेरोरुपान्तेष्विव वर्तमान-
मन्योन्यसंसक्तमहस्त्रियामम् ॥ ७६ ॥
तौ दम्पति त्रिः परिणीय वह्नि
मन्योन्यसंस्पर्शनिमीलिताक्षौ ।
स कारयामास बघू' पुरोधा
स्तस्मिन् समिद्धार्चिषि लाजमोक्षम् ॥८०॥
सा लाजधूमाञ्जलिमिष्टगन्धं
गुरूपदॆशाद्वदनं निनाय ।
कपोलसंसर्पिशिखः स तस्या
मुहूर्तकर्णोत्पलतां प्रपेदे॥ ८१ ॥

 प्रदक्षिणेति । तन्मिथुनमुदर्चिष उन्नतध्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणाचकासे । किमिव। मेरोरुपान्तो षु परिसरेषु वर्तमानम् आवर्तमानम्। मेरु” प्रदचिणीकुर्वदित्यर्थः । अन्योन्येन संसक्त' सङ्गतम्। मिथुनस्याप्येतद्विशेषणम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव । समाहारे हन्इ कवद्भावः ॥ ७८ ॥

 ताविति । स पुरस्तादेव हितं विधत इति पुरोधाः पुरोहितोऽन्योन्यस्य संस्थशेन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दम्पती । कर्मभूतौ । जायाशब्दस्य दंभावो निपातितः ॥ वद्धि त्रिस्त्रिवारम् । `द्वित्रिचतुरैः सुच्” इति सुच् । परिषीय परितो नीत्वा प्रदक्षिणीकार्येत्यर्थः । नयते ईिकमकाक्षप् । समिद्यार्चिषि दीप्तज्वाले तस्मिन् वऔ बधूं लाजमोचं लाजविसर्गं कारयामास । `क्रोरन्यतरस्याम् इति विकल्पादणिकतुः कर्मत्वम् ॥ ८० ॥

 सेति । सा बधूः गुरोः पुरोधस उपदेशात इष्टः । घ्राणतर्पण इत्यर्थः । गन्धो यस्य तं लाजधूमाञ्जलिं वदनं निनाय ।