पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३२
कुमारसम्भवे

तदीषदार्दरुणगण्डलेख
मुच्छासिकालाञ्जनरागमक्षणः।
बधूमुखं कान्तयवावतंस-
माचारधूमग्रहणाबभूव ॥ ८२ ॥
बधू' द्विजः प्राह तवैष वत्से
वह्निर्विवाहं प्रति (७)[१]कर्मसाक्षी ।
शिवेन भर्ना सह धर्मचर्या
कार्या त्वया मुक्तविचारयेति ॥ ८३ ॥

कपोलसंसर्पि शिखा यस्य स तथोतः स धूमस्तस्या गौर्या सुहृतंकणरत्पलतां प्रपेदे। धूमस्य विद्मरत्वात् सुह्र्तग्रहणम् ॥ ८१ ॥

 तदिति । तद्वधूमुखमाचरधूमग्रहणादाचारप्राप्तधूमत्वात् ईषद्द्वे स्त्रिने अरुणे च गण्डलेखे गण्डस्थले यस्य तत्तथो ताम् । अक्ष्णरुच्छसौ उद्दच्छन् कालाञ्जनस्य रागोऽञ्जनं यथा तत्तथोक्तम्। क्लान्तो यवावतंसो यवाङरकर्णपूरो यस्य तत्त थाभूतं बभूव ॥ “लाजाञ्जलिं विसृज्य धूमाग्रं जिघ्र त्” इति प्रयोगवृत्तिकारः ॥ ८२ ॥

 बधूमिति ॥ अथ बधं द्विजः पुरोधाः प्राह । किमिति । हे वत्स एष वह्निस्तव विवाहं प्रति । विवाहकर्मणीत्यर्थः। कर्ममाशं भ शिवेन सह मुक्तविचारया निर्विकमेङ्कट । अत्र चारया त्वया धर्मचर्या धर्माचरणं कार्यं कर्तव्येति। अयं च प्राजापत्यविवाह द्रष्टव्यः। यथहाद्वलायन -‘सह धर्भ चरदिति प्रजापत्ये” इति ॥ ८३ ॥


  1. पूर्वसाक्षी ।