79] षष्ठो ऽङ्कः
एव नासीत् । प्रथममपि तत्रभवत्याः कीर्तितं नाम मया । कश्चिदमिव
18विस्मृतवांस्त्वमपि ।
मिश्रकेशी । अदो जेब महीवदीहिं खणं पि सहिअ आ सहाआ ण
विरदिव्या ।
21 विदूषकः । भो । ण बिसुमरामि । किं तु सव्वं कधेिअ तए जेव
अवसाणे कधिदं । परिहासविअप्पो एसो ण भूदत्थो ति । मए मन्दबु
द्विणा तधा जेव गदिदं । अध वा भविदव्वदा एत्थ बलवदी ।
24 िमश्रकेशी । एवं णेदं ।
राजा । । क्षणं ध्यात्वा । सखे । परित्रायस्व माम् ।
विदूषकः । भो वअस्स । एदं किं उवण्णं तुह । ण कदा वि सप्पुरिसा
27 सो अवक्तव्वा होन्ति । णं पवादे वि णिकम्पा जेव गिरीओ ।
राजा । वयस्य । निराकरणविङ्कबायास्ते सख्यास्तामवस्थामनुस्मृत्य बलव
दशरणो ऽस्मि । सा हि
इतः मत्यादिष्टा स्खजनमनुगन्तुं व्यवसिता
स्थिता तिष्ठत्युचैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्देटिं वाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ १० ॥
मिश्रकेशी । अम्महे । इमस्स ईदिसी अकज्जपरदा संतावेदि ।
विदूषकः । भो । आत्थि मे तको । केण वि तत्थभोदी आआससंचारिणा
3णीद ति ।
राजा । वयस्य । कः पतिव्रतां तामन्यः परामर्युमुत्सहते । मेनका केिल
सख्यास्ते जन्मप्रतिष्ठति सखीजनादस्मि श्रुतवान् । तत्सहचरीभिस्तया
6वा नीतेति मे हृदयमाशङ्कते ।
मिश्रकेशी । संमोहो क्खु विम्हअणीओ ण उण पडिबोधो ।
.
पृष्ठम्:Kalidasa's Śakuntala.djvu/९९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
