पृष्ठम्:Kalidasa's Śakuntala.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi.8.b-] आभज्ञानशकुन्तले मम च मुक्तमिदं तमसा मनः । मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ।। ८ ।। अपि च । उपहितस्मृतिरङ्गुलिमुद्रया प्रियतमामनिमित्तनिराकृताम् । अनुशयादनुरोदिमि चोत्सुक सुरभिमाससुखं समुपस्थितम् ॥ ९ ॥ विदूषकः । भो व अस्स । चिट्ट दाव जाव इमिणा दण्डअद्वेण कन्दप्पबाणं णासेमि । ॥ इति दण्डकाष्ठमुद्यम्य चूताकुरं पातयितुमिच्छति । 3राजा । । सस्मितम् । भवतु । दृष्टं ब्रह्मवर्चसम् । सखे । केदानीमुपविष्टः प्रियायाः किं चिदनुकारिणीषु लतासु दृष्टिं विनोदयामि । विदूषकः । णं भवदा आसण्णपरिचारिआ लिविअरी मेधाविणी आदिट्टा । 6माह्वीलदाघरए इमं वेलं अदिवाहइस्सं तहिं च मे चित्तफलए सहृत्था लिहिदं तत्थभोदीए सउन्तलाए पडिकिदिं आणेसु ति । राजा । ईदृशमेव मे हृदयमत्याश्धासनम् । तत्तदेवादेशय माधवीलतागृहम् । 9विदूषकः । इदो इदो एदु भवं । ।॥ इति परिक्रामतः । मिश्रकेशी अनुगच्छति । विदूषकः । एस मणिसिलापट्टसणाधो माहवीलदामण्डवो विवित्तदाए णीसद्दसाअदेण विअ पडेिच्छदि तुमं । ता पविसिअ उवविसम्ह् । । उभैौ 12तथा कुरुतः ॥ मिश्रकेशी । लदाए अन्तरिदा पेक्खिस्सं दाव पिअसहीपडिकिदिं । तदो से भत्तुणो अणुराअं बहुमदं णिवेदइस्सं । । तथा स्थिता ॥ 15राजा । । निःश्वस्य ॥ सखे । सर्वमिदानीं स्मरामि । शकुन्तलायाः प्रथम दर्शनवृत्तान्तं कथितवानस्मि भवते । स भवान्प्रत्याख्यानकाले मत्समीपगत [78 [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/९८&oldid=83703" इत्यस्माद् प्रतिप्राप्तम्