पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृति

अङ्गिरःस्मृतिः।

गवाऽऽघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुध्यन्ते दशभिः क्षारैः श्वकाकोपहतानि च ॥५७॥

शुद्धिः सुवर्णदरुप्याणां मारूतार्केन्दुरश्मिभिः । गण्डूषं पादशौचं च कुर्यात्कांसस्य​ भाजने ॥५८॥

भूमौ निक्षिप्य षरामासान्पुनराकारमादिशेत् । निर्लेपं काञ्चनं भाएडमद्भिरेव विशुध्यति ॥५९॥

आमिषाभिरसम्पृष्टं ताम्रमम्लेन​ शुध्यति । रेतःस्पृष्टं शवस्पृष्टमाविकंन च दुष्यति ॥ ६०॥

दंपत्योर्विप्रयोरग्न्योर्विप्राग्न्योर्गोद्विजन्मनोः । अन्तरे यदि वा गच्छेदहोरात्रेण शुध्यति ॥६१॥

विना दर्भेण यत्स्नानं यच्च दानं विनोदकम्‌ । असंख्यातं तु यज्जप्तं तत्सर्वं निष्फलं भवेत् ॥६२॥

आसने पादमारूढे यत्स्यादर्धं कृतं पदः । सुखेन​ धमितं भुङ्क्ते तुल्यं गोमांसभक्षणे ॥६३॥

पिबतः पतते तोयं भाजने मुखनिःसृतम् । अभोज्यं तद्भवेदन्नं भुक्त्वा चान्द्रायणं चरेत् ॥६४॥

शुष्कमन्नमविद्यस्य​ सप्तरात्रेण​ जीर्यति । अन्नं व्यञ्जनसंयुक्तमर्धमासेन जीर्यति ॥ ६५॥

पयो दधि तु​ मासेन षरामासेन घृतं तथा । तैलं संवत्सरेणैव​ कोष्ठे जीर्यति मा न वा ॥६६॥

यस्तु भुञ्जीत शूद्रान्नं मासमेकं निरन्तरम् । स जीवन्नेव शूद्रः स्यान्मृतः श्वानोऽभिजायते ॥६७॥

शूद्रान्नरसपुष्टस्य​ त्वधीयानस्य​ नित्यशः । यजतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते ॥६८॥

शूद्रान्नेन तु भुक्तेन​ मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते ॥६९॥

शूद्रान्नेनोदर​स्थेन​ यस्तु प्रारान्विमुञ्चति । स भवेत्सूकरो ग्रामे तस्य वा जायते कुले ॥७०॥

शूद्रान्नं पच्यते येन​ शूद्रा च गृहमेधिनी । वर्जितः पितृभिर्देवै रौरवं नरकं व्रजेत् ॥७१॥

शूद्रप्रेक्षकारी यो ब्रह्मणो ज्ञानदुर्बलः । भूमौ देयं तु​ तस्यान्नं यथैव श्वा तथैव स ॥७२॥

शूद्रान्नं शूद्रसंपर्कः शूद्रैरैव सहासनम् । शूद्राज्ज्ञानागमः कश्चिज्ज्वलन्तमपि पातयेत् ॥७३॥

शूद्रे कृतप्रणामे तु स्वस्ति चित्क्रियते द्विजैः । शूद्रोऽग्रे नरकं याति ब्राह्मणस्तदनन्तरम् ॥७४॥

अग्निहोत्री तु यो विप्रः शूद्रन्नान्न निवर्तते । पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्रतः ॥७५॥

शूद्रोच्छिष्टस्तु संस्पृष्टः प्रमादाद्द्रव्यपाणिना । तद्द्विजेन न भोक्तव्यमापस्तम्बोऽब्रवीन्मुनिः ॥७६॥

भुञ्जीत ब्राह्मणस्यान्नं क्षत्रियस्य तु पर्वणि । सकृद्वैश्यस्य भुञ्जीत​ न शूद्रस्य कथंचन​​ ॥७७॥

अमृतं ब्राह्मणस्यान्नं क्षत्रियस्य पयः स्मृतम् । वैश्यान्नमन्नमेव​ स्याच्छूद्रस्य रुधिरं स्मृतम् ॥७८॥

ब्राह्मणान्ने पवित्रत्वं क्षत्रान्ने पशुता स्मृता । वैश्यान्ने चापि शूद्रत्वं शूद्रान्ने नरकं व्रजेत् ॥७९॥

दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । यस्यान्नं च समश्नाति भुङ्क्ते तस्य च किल्बिषम् ॥८०॥

सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः । पिबेत्पानीयमज्ञानाद्भुङ्क्ते चान्नं स्पृशेत्तथा ॥८१॥

पानीयपाने कुर्वीत​ पञ्चगव्यस्य पाशनम् । त्रिरात्रोपोषितो भूत्वा स्पृष्ट्वा स्नानेन शुध्यति ॥८२॥

दशाहाच्छुध्यते विप्रो जन्महानौ स्वयोनिषु । षड्भिस्त्रिभिरथैकेन​ क्षत्रविट्शूद्रयोनिषु ॥८३॥

यद्योकजाता बहवः प्रृथक्क्षेत्रेषु वर्णिनाम् । सर्वेषां पेतृकं शौचं यावन्नोपरतः पिता ॥८४॥

मृतसूतकपुष्टाङ्गंद्विजं शूद्रान्नभोजनम् । अहमेव न जानामि कां कां योनिं स गच्छति ॥८५॥

गृध्रो द्वादश जन्मानि दश जन्मानि सूकरः । श्वा भवेत् सप्त जन्मानि इत्येवं मनुरब्रवीत् ॥८६॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/७&oldid=337494" इत्यस्माद् प्रतिप्राप्तम्