पृष्ठम्:हितोपदेशः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३६) [ हितोपदेशे- को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः । कः नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ १५६ ॥ तथा च- परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेदकर्तृणां विपदः स्युः पदेपदे ॥ १५७ ॥ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ १५८ ॥ अपर च- पानीयं वा निरायासं स्वान्नं वाऽभयोत्तरम् । विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥ १५९६ इत्यालोच्याह निर्जनवनमागत । यत - वरं वनं व्याघ्रगजेन्द्रसेवितं | हुमालयः पक्कफलाम्बुभोजनम् । तृणानि शय्या परिधानवल्कलं न बन्धुमध्ये धनहीनजीवनम् ॥ १६० ॥ ततोऽस्मत्पुण्योदयादनेन मित्रेणाह स्नेहानुवृत्यानुगृहीत । अधुना च पुण्य परंपरया भवदाश्रय स्वर्ग एव मया प्राप्त । यत - संसारविषवृक्षस्य द्वे एव रसवत्फले। काव्यामृतरसास्वादः सङ्गमः सुजनैः सह ॥ १६१ ॥ अपर च- सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥१६२ ॥ मन्थर उवाच- ‘अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम् आयुष्यं जललोलबिन्दुचपलं फेनोपमं जीवितम् । धर्म यो न करोति निन्दितमतिः स्वर्गार्गलोद्धाटनं पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते॥१६३॥