(३६) [ हितोपदेशे-
को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः ।
कः नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ १५६ ॥
तथा च-
{{bold|<poem>परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः ।
अपरिच्छेदकर्तृणां विपदः स्युः पदेपदे ॥ १५७ ॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ १५८ ॥
अपर च-
पानीयं वा निरायासं स्वान्नं वाऽभयोत्तरम् ।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥ १५९६||
इत्यालोच्याह निर्जनवनमागत । यत -
वरं वनं व्याघ्रगजेन्द्रसेवितं
| हुमालयः पक्कफलाम्बुभोजनम् ।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवनम् ॥ १६० ॥
ततोऽस्मत्पुण्योदयादनेन मित्रेणाह स्नेहानुवृत्यानुगृहीत । अधुना च पुण्य परंपरया भवदाश्रय स्वर्ग एव मया प्राप्त । यत -
संसारविषवृक्षस्य द्वे एव रसवत्फले।
काव्यामृतरसास्वादः सङ्गमः सुजनैः सह ॥ १६१ ॥
अपर च-
सत्सङ्गः केशवे भक्तिर्गङ्गाम्भसि निमज्जनम् ।
असारे खलु संसारे त्रीणि साराणि भावयेत् ॥१६२ ॥
मन्थर उवाच-
‘अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनम्
आयुष्यं जललोलबिन्दुचपलं फेनोपमं जीवितम् ।
धर्म यो न करोति निन्दितमतिः स्वर्गार्गलोद्धाटनं
पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते॥१६३॥