सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मित्रलाभः. ]
३७
 


युष्माभिरतिसचय' कृत , तस्याय दोषः । शृणु-

उपार्जिताना वित्तानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानों परीवाह इवाम्भसाम् ॥ १६४॥

अन्यच्च-

यद्धोधः क्षित वित्तं निचखान मितंपचः ।
तदधो निलयं गन्तुं चक्रे पन्थानमग्रतः ॥ १६५ ।।

अन्यच्च-

निजसौख्यं निरुन्धानो यो धनार्जनामच्छात ।
परार्थभारवाहीव क्लेशस्यैव हि भाजनम् ॥ १६६ ॥

अपर च-

दानोपभोगहीनेन धनेन धनिनो यदि।।
पृथ्वीखातानिखातेन धनेन धनिनो वयम् ॥ १६७॥

अन्यच्च-

दानभोगविहीनाश्च दिवसा यान्ति यस्य वै।
स कर्मकारभखेव श्वसन्नापि न जीवति ॥ १६८ ॥

धनेन किं यो न ददाति नाश्नुते
| बलेन कि यश्च रिपून्न बाधते ।।
श्रुतेन किं यो न च धर्माचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥ १६९ ॥
असंभोगेन सामान्यं कृपणस्य धनं परैः ।।
अस्येदमिति सम्बन्धो हानिर्दुःखेन गम्यते ॥ १७०॥
न देवाय न विप्राय न बन्धुभ्यो न चात्मने ।
कृपणस्य धनं याति वह्नितस्करपार्थिवैः ॥ १७१ ॥

अन्यच्च-

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति १७२