रोगी चिरप्रवासी परान्नभोजी परावसथशायी।
यजीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥१४८॥
इत्यालोच्यापि लोभात् पुनरपि तदीयान्न ग्रहीतु ग्रहमकरवम् । तथा चोक्तम्-
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।।
तृषात दुःखमाप्नोति परवेह च मानवः ॥ १४९ ॥
ततोऽहं मन्दमन्दमुपसर्पस्तेन वीणाकर्णेन जर्जरवशखण्डेन ताडितश्चा- चिन्तयम्-
धनलुब्धो ह्यसंतुष्टोऽनियतात्माऽजितेन्द्रियः।
सर्वा एवापदस्तस्य यस्य तुष्ट न मानसम् ॥ १५० ॥
तथा च-
सर्वाः संपत्तयस्तस्य सन्तुष्टं यस्य मानसम् ।
उपानगूढपादस्य ननु चर्मावृतेव भूः ॥ १५१ ॥
अपर च-
सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ १५२ ॥
किञ्च-
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम् ॥ १५३॥
अपि च-
असेवितेश्वरद्वारमदृष्टविरहव्यथम् ।
अनुक्तक्लीबवचनं धन्यै कस्यापि जीवनम् ॥ १५४ ॥
यत -
न योजनशतं दूर बाध्यमानस्य तृष्णया ।
संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥ १५५ ॥
तदत्रावस्थोचितकार्यपरिच्छेदः श्रेयान् । उक्त च-