पृष्ठम्:हितोपदेशः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८) [ हितोपदेशे-- हिरण्यको ब्रूते-* मित्र ! के गन्तव्यम् १ तथा चोक्तम्-- स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः। इति विज्ञाय मातिमान्स्वस्थानं न परित्यजेत् ॥१०३॥ काको ब्रूते-* मित्र ! कापुरुषस्य वचनमेतत् । यतः- स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १०४॥ अन्यच्च-- को वीरस्य मनस्विनः स्वाविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् । यदंष्ट्रानखलालप्रहरणः सिंहो वनं गाहते। तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ॥१०५॥ चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । मासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १०६ ॥ अस्ति सुनिरूपितस्थानम् ।' हिरण्यकोऽवदत् “ कि तत् १ ' वायसो ब्रूते-

  • अस्ति दण्डकारण्ये कर्पूरगौराभिवान सर । तत्र चिरकालोपार्जितः

प्रियसुहृन्मे मन्थराभिधान सहजधार्मिक प्रतिवसति । यत.-- परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धमैं स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ १०७ ॥ स च भोजनविशेषैर्मा सवर्वयिष्यति । ' हिरण्यकोऽप्याह- तत्किमत्रावस्थाय -मया कर्तव्यम् १ यत -- यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवः । न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १०८ ॥ अपर च-- धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वास न कारयेत् ॥ १०९ ॥ लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशलता। पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ ११०॥