'तत्र मित्र न वस्तव्यं यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ १११ ॥'
ततो मामपि तत्र नय ।' वायसोऽवदत् “ एवमस्तु । अथ वायसस्तेन मित्रेण सह विचित्रालापै सुखेन तस्य सरसः समीप ययौ । ततो मन्थरो दूरादवलोक्य लघुपतनकस्य यथोचितमातिथ्य विधाय मूषिकस्यातिथिसत्कार चकार । यत -
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।।
पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः॥ ११२॥
वायसोऽवदत्- सखे मन्थर ! सविशेषपूजामस्मै विधेहि । यतोऽय पुण्य- कर्मणा बुरीण कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराज । एतस्य गुणस्तुति जिह्वासहस्रद्वयेनापि सर्पराजो न कदाचित्कथयितु समर्थ स्यात् । इत्युक्त्वा चित्र- ग्रीवोपाख्यान वाणितवान् ।' ततो मन्थर सादर हिरण्यक सपूज्याह- भद्र ! आत्मनो निर्जनवनागमनकारणमाख्यातुमर्हसि ।' हिरण्यकोऽवदत्-‘कथयामि । श्रूयताम्---
{{bold|कथा ४,
अस्ति चम्पकाभिधानाया नगर्या परिव्राजकावसथ । तत्र चुडाकर्णो नाम परिव्राट प्रतिवसति । स च भोजनावशिष्ट भिक्षानसहित भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अह च तदनमुत्लुत्य प्रत्यह भक्षयामि । अन- न्तर तस्य प्रियसुहृद्वीणाकर्णो नाम पारव्राजक समायातः। तेन सह कथा- प्रसङ्गावस्थितो मम त्रासार्थं जर्जरवशखण्डेन चूडाकर्णो भूमिमताडयत् । तदृष्ट्वा वीणाकर्ण उवाच-सखे ! किमिति मम कथाविरक्तोऽन्यासक्तो भवान् १ यतः-
मुखं प्रसन्नं विमला च दृष्टिः ।
कथासु (नु ) रागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनं च
सदानुरक्तस्य जनस्य लक्ष्यम् ॥ ११३ ॥