सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(२८)
[ हितोपदेशे-
 


हिरण्यको ब्रूते-* मित्र ! के गन्तव्यम् १ तथा चोक्तम्--

स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः।
इति विज्ञाय मातिमान्स्वस्थानं न परित्यजेत् ॥१०३॥

काको ब्रूते-* मित्र ! कापुरुषस्य वचनमेतत् । यतः-

स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः ।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ १०४॥

अन्यच्च--

को वीरस्य मनस्विनः स्वाविषयः को वा विदेशः स्मृतो यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।

यदंष्ट्रानखलालप्रहरणः सिंहो वनं गाहते।
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ॥१०५॥
चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
मासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ १०६ ॥

अस्ति सुनिरूपितस्थानम् ।' हिरण्यकोऽवदत् “ कि तत् १ ' वायसो ब्रूते-

  • अस्ति दण्डकारण्ये कर्पूरगौराभिवान सर । तत्र चिरकालोपार्जितः

प्रियसुहृन्मे मन्थराभिधान सहजधार्मिक प्रतिवसति । यत.--

परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धमैं स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ॥ १०७ ॥

स च भोजनविशेषैर्मा सवर्वयिष्यति । ' हिरण्यकोऽप्याह- तत्किमत्रावस्थाय -मया कर्तव्यम् १ यत --

यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥ १०८ ॥

अपर च--

धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र न विद्यन्ते तत्र वास न कारयेत् ॥ १०९ ॥
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशलता।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ ११०॥