पृष्ठम्:हितोपदेशः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः.] (२७) अन्यच्च- शुचित्वं त्यागिता शौर्य सामान्यं सुखदुःखयोः ।। दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ ९७ ॥ एतैर्गुणैरुपेतो भवदन्यो मया क सुहृत्प्राप्तव्य १ ' इत्यादि तद्वचन- माकर्ण्य हिरण्यको बहिर्नि सत्याह-आप्यायितोऽह भवतामनेन वचनामृतेन । तथा चोक्तम्-- घर्मार्त न तथा सुशीतलजलैः स्नानं न मुक्तावली न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम् । प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च पुरस्कृतं सुकृतिनामकृष्टिमन्त्रोपमम् ॥९७॥ अन्यच्च-- रहस्यभेदो याच्ञा च नैष्ठुर्य चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ ९९ ॥ अनेन वचनक्रमेण तदेकदूषणमपि त्वयि न लक्ष्यते । यतः-- पटुत्वं सत्यवादित्वं कथायोगेन बुध्यत ।। अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते ॥ १०० ॥ अपर च-- अन्यथैव हि सौहार्द भवेत्स्वच्छान्तरात्मनः। प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ॥ १०१ ॥ मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यदुरात्मनाम् । मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥ १०२ ॥ तद्भवतु भवतोऽभिमतमेव ।' इत्युक्त्वा हिरण्यको मैत्र्य विधाय भोजन- विशेषैर्वायस सतोष्य विवर प्रविष्ट । वायसोऽपि स्वस्थान गत । तत.प्रकृति तयोरन्योन्याहारप्रदानेन कुशलप्रश्नैर्विश्रम्भालापैश्च कियान् कालोऽतिवर्तते ।। एकदा लघुपतनको हिरण्यकमाह- * सखे वायस । कष्टतरलभ्याहारमिदं स्थानम् । तदेतत् परित्यज्य स्थानान्तर गन्तुमिच्छामि ।'