पृष्ठम्:हितोपदेशः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२६) [ हितोपदेशे- तथा चोक्तम्- मार्जारो माहिषो मेषः काकः कापुरुषस्तथा । विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नोचितः ॥ ८८ ॥ कि चान्यत् । शत्रुपक्षो भवानस्माकम् । उक्तं चैतत्- शत्रुणा न हि सन्दध्यात्सुलिष्ठेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥ ८९ ॥ दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन् । मणिना भूषितः सर्पः किम न भयङ्करः ॥ ९० ॥ यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् ।। नोदके शकटं याति न च नर्गच्छति स्थले॥ ९१ ॥ अपर च---- महताप्यर्थसारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तदन्तं तस्य जीवनम् ॥ ९२ ॥ लघुपतनको ब्रूते-‘श्रुतं मया सर्वम् । तथापि मम चैतावान्सकल्पस्त्वया सह सौहृद्यमवश्य करणीयमिति । नो चेदनाहारेणात्मान तव द्वारि व्यापादयिष्यामि । तथा हि- मृद्धटवत्सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति । सुजनस्तु कनकधटवभेद्यश्चाशु सन्धेयः ॥ ९३ ॥ कि च- द्रवत्वात्सर्वलोहाना निमित्तान्मृगपक्षिणाम् । | भयाल्लोभाच्च मूर्खाणा सङ्गत दर्शनासताम् ॥ ९४ ॥ कि च- नारिकेलसमाकारा दृश्यन्ते हि सुजनाः । अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ ९५ ॥ एतज्ज्ञात्वा सता सगतिरिष्यते-- स्नेहच्छेदेपि साधूनां गुणा नायान्ति विक्रयाम् । भङ्गेऽपि हि मृणालानामनुबन्नन्ति तन्तवः ॥ ९६॥