पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४४
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

"धनिष्ठाप्रतिपद्युक्तं त्वाष्ट्रर्क्षेण समन्वितम् ।
श्रावणं कर्म कुर्वीरन्नृग्यजुःसामपाठकाः"

 इति स्मृतितः श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीतेति धर्मसूत्राच्च पौर्णमास्या एव मुख्यत्वप्रतीतेः सैव मुख्यः कालः । तस्याः सदोषत्वे हस्त इति ज्ञेयम् । तत्र तैत्तिरीयैरियमौदयिकी ग्राह्या ।

"पर्वण्यौदयिके कुर्युः श्रावणं तैत्तिरीयकाः ।
बह्वृचाः श्रवणे कुर्युर्ग्रहसंक्रान्तिवर्जिते" इति गर्गोक्तेः ।

 धनिष्ठाप्रतिपद्युक्तमित्यनन्तरोदाहृतस्मृतितः,

"संप्राप्तवाश्रुतीर्ब्रह्मा पर्वण्यौदयिके यतः ।
अतो भूतयुते तस्मिन्नोपाकरणमिष्यते"

 इति कालिकापुराणाच्च ।

 तत्रोपाकरणकालः पूर्वाह्ण एव दैवत्वात् ।

"भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्ण एव तु ।
ब्राह्मणान्भोजयेत्तत्र पितॄनुद्दिश्य देवताः"

 इति ब्रार्हत्प्रचेतसाच्च ।

 यत्तु--

"अध्यायानामुपाकर्म कुर्यात्कालेऽपराह्णके ।
पूर्वाह्णे तु विसर्गः स्यादिति वेदविदो विदुः"

 इति हेमाद्रौ गोभिलवच[१]नं तत्सामगविषयं नेषामपराह्ण एवोक्तेः, ([२]इति नवीनाः । उत्सर्जनं तु सर्वेषामपि पूर्वाह्ण एव । श्रौताग्निमता स्मार्ताग्निमता वोपाकर्मोत्स[३]र्जने वा कृत्वैवान्वाधानं कार्यं न तु पूर्वम् । अन्यथोपाकर्मोत्सर्जनयोः पौर्णमासेष्टिस्थालीपाकतन्त्रमध्येऽनुष्ठानापत्तेः । न चेष्टापत्तिः, न हि कर्मणि कर्मारम्भ इतिन्यायबाधापत्तेः । संध्यावन्दनादौ त्वनायत्या बाधः । न च प्रातरग्निहोत्रं हुत्वोदित आदित्ये गार्हपत्यादाहवनीयमुद्धृत्य ममाग्ने वर्च इत्यन्वादधातीत्यग्निहोमान्वाधानयोरव्यवहितानन्तर्यस्य क्त्वाप्रत्ययेन बोधितत्वाद्वैपरीत्यमेवास्तु । तेन न हि कर्मणि कर्मारम्भ इति न्यायस्य संध्यावन्दनादिष्विवानायत्या बाध इति वाच्यम् । हुत्वेति क्त्वाप्रत्ययस्यैव केवलमानन्तर्यमात्रार्थकत्वस्य कल्पनेन बाधापत्त्यभावात् ।

 एवं सद्यस्कालेष्टिरप्युपाकर्मोत्सर्जने कृत्वैव, प्रतिपद्येव तस्याः समापनीय


  1. क. चस्तत्सा ।
  2. धनुश्चिह्नान्तर्गतग्रन्थो नास्ति ङ. पुस्तके ।
  3. च. जर्न कृ ।