"धनिष्ठाप्रतिपद्युक्तं त्वाष्ट्रर्क्षेण समन्वितम् । |
इति स्मृतितः श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीतेति धर्मसूत्राच्च पौर्णमास्या एव मुख्यत्वप्रतीतेः सैव मुख्यः कालः । तस्याः सदोषत्वे हस्त इति ज्ञेयम् । तत्र तैत्तिरीयैरियमौदयिकी ग्राह्या ।
"पर्वण्यौदयिके कुर्युः श्रावणं तैत्तिरीयकाः । |
धनिष्ठाप्रतिपद्युक्तमित्यनन्तरोदाहृतस्मृतितः,
"संप्राप्तवाश्रुतीर्ब्रह्मा पर्वण्यौदयिके यतः । |
इति कालिकापुराणाच्च ।
तत्रोपाकरणकालः पूर्वाह्ण एव दैवत्वात् ।
"भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्ण एव तु । |
इति ब्रार्हत्प्रचेतसाच्च ।
यत्तु--
"अध्यायानामुपाकर्म कुर्यात्कालेऽपराह्णके । |
इति हेमाद्रौ गोभिलवच[१]नं तत्सामगविषयं नेषामपराह्ण एवोक्तेः, ([२]इति नवीनाः । उत्सर्जनं तु सर्वेषामपि पूर्वाह्ण एव । श्रौताग्निमता स्मार्ताग्निमता वोपाकर्मोत्स[३]र्जने वा कृत्वैवान्वाधानं कार्यं न तु पूर्वम् । अन्यथोपाकर्मोत्सर्जनयोः पौर्णमासेष्टिस्थालीपाकतन्त्रमध्येऽनुष्ठानापत्तेः । न चेष्टापत्तिः, न हि कर्मणि कर्मारम्भ इतिन्यायबाधापत्तेः । संध्यावन्दनादौ त्वनायत्या बाधः । न च प्रातरग्निहोत्रं हुत्वोदित आदित्ये गार्हपत्यादाहवनीयमुद्धृत्य ममाग्ने वर्च इत्यन्वादधातीत्यग्निहोमान्वाधानयोरव्यवहितानन्तर्यस्य क्त्वाप्रत्ययेन बोधितत्वाद्वैपरीत्यमेवास्तु । तेन न हि कर्मणि कर्मारम्भ इति न्यायस्य संध्यावन्दनादिष्विवानायत्या बाध इति वाच्यम् । हुत्वेति क्त्वाप्रत्ययस्यैव केवलमानन्तर्यमात्रार्थकत्वस्य कल्पनेन बाधापत्त्यभावात् ।
एवं सद्यस्कालेष्टिरप्युपाकर्मोत्सर्जने कृत्वैव, प्रतिपद्येव तस्याः समापनीय