पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११४३
संस्काररत्नमाला ।

मपि स्यादिति । केचिदपूर्वाध्ययनार्थे उपाकरणोत्सर्जने मन्यन्ते तेषां गृहीतस्यापि स्मरणार्थेऽभ्यासे न स्यातामिति । ओषधीषु जातास्विति वचनमोषधिप्रादुर्भाव एव श्रावणपक्ष उपाकर्मानुष्ठानं प्रोष्ठपद ओषधिप्रादुर्भावे प्रोष्ठपद्यां पौर्णमास्यां प्रोष्ठपदान्तर्गते हस्ते वेतिकालान्तरसंग्रहार्थम् । उक्तौ च प्रोष्ठपदीहस्तौ बौधायनेन--

"श्रावण्यां पौर्णमास्यां हस्ते वाऽध्यायोपाकर्म
प्रोष्ठपद्यां हस्ते वा" इति ।

 अत्र हस्तस्य द्विर्वचनं श्रावणप्रोष्ठपदहस्तग्रहणार्थम् । ओषधीषु जातासु श्रावणस्य हस्तेन पौर्णमास्यां वेत्यन्वयः । यथाश्रुतान्वये तु श्रावणपक्ष ओषधिजनने सत्येव श्रावणपक्षान्तर्गतयोर्हस्तपौर्णमास्योरुपाकर्म, आषाढ ओषधिजनन आषाढशुक्लपक्षान्तर्गतयोर्हस्तपौर्णमास्यो[१]रिति स्यात्, तच्छ्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं प्रदोषे नाधीयीतेतिधर्मसूत्रे श्रावण्याः पौर्णमास्या एवानुवादान्मुख्यत्वप्रतीतेः सूत्रविहितकालपूर्वतनकालग्रहणस्यायुक्तत्वाच्चानिष्टम् । ओषधीषु जातासु प्ररूढासु । श्रावण्या पौर्णमास्या युक्तः पक्षः श्रवणापक्षः श्रावणपूर्वपक्ष इति यावत्[२] "विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः" इति निपातनाच्छ्रवणाशब्दः साधुः । तदन्तर्गते हस्ते तदन्तर्गतायां पौर्णमास्यां वा, अधीयन्त इत्यध्याया वेदास्तेषामुपाकरणमारम्भः कर्तव्य इत्यर्थः । ओषधीषु जातास्विति हस्ते पौर्णमास्यां च संबध्यते । हस्तेनेति तृतीयाऽधिकरणे[३] मूलेनाऽऽवाहयेद्देवीमितिवत् । श्रावण ओषधिप्रादुर्भावाभावे प्रोष्ठपद्याम् । यथौषधिप्रादुर्भावाभावः श्रावणातिक्रमनिमित्तं तथाऽऽशौचादीन्यपि, तेन येन केनचिन्निमित्तेन श्रावणातिक्रमेऽपि, अपेक्षितविधिलाभादेवात्रापि प्रोष्ठपदीकालः । तत्राप्याशौचादिसत्त्व आशौचान्ते कर्तव्यमिति केचित् । लोप एवेत्यन्ये । प्रथमोपाकरणोत्सर्जनयोस्तु लोप एव । ([४]प्रथमोपाकरणं तु मुख्यकाल एव कार्यम् । एवमुत्सर्जनमपि । उत्सर्जन उपाकर्मदिनेऽथवेतिविशेषकालान्तरस्य विहितत्वात्तत्रापि प्रथमोत्सर्जनं भवत्येवेति केचित् ।) सूत्रे यद्यपि कालद्वयस्य साम्यं हस्तस्य प्रथमोपादानान्मुख्यत्वं वा प्रतीयते तथाऽपि--


  1. क. स्योरेव सिद्धवदनुवादान्मुख्यत्वप्रतीतेः, एतद्वार्षिकमित्याचक्षत इति वर्षाकर्म ह्येतदाचक्षत इत्याश्वलायनखादिरादिसूत्रविरोधात्सूत्र ।
  2. ङ. त् । त ।
  3. ङ. णे मैत्रेणाऽवा ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।