पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[उपाकरणम्]
११४५
संस्काररत्नमाला ।

त्वेन पूर्वाह्णकालस्यावरुद्धत्वेन तन्मध्यपातस्य तादवस्थ्यापाते प्रतिपत्सापेक्षेष्टेः पूर्वमेव पर्वमात्रसापेक्षोपाकरणोत्सर्जनानुष्ठानस्य युक्तत्वात् । ) तत्र यदा सूर्योदयमारभ्य पौर्णमासी प्रवृत्ता तदा संदेह एव नास्ति । यदा तु पूर्वदिने मुहूर्तत्रयानन्तरं प्रवृत्ता द्वितीयदिने संगवात्परतो न भवति तदा--

"श्रावणी पौर्णमासी तु संगवात्परतो यदि ।
तदैवोदयिकी ग्राह्या नान्या त्वौदयिकी भवेत्"

 इति वचनेन संगवात्परतो विद्यमानाया एवौदयिक्या ग्राह्यत्वोक्तेः प्रकृते तादृश्या अभावात्पूर्वैव । संप्राप्तवाञ्श्रुतीर्ब्रह्मेति निषेधस्तु परदिने संगवात्परतः सत्त्व एवेति द्रष्टव्यम् ॥

 यदा तु पूर्वदिने मुहूर्त[१]त्रयानन्तरं प्रवृत्ता द्वितीयदिने संगवात्परतो[२] यदि भवति तदा 'पर्वण्यौदयिके कुर्युः' 'धनिष्ठाप्रतिपद्युक्तं' 'संप्राप्तवाञ्श्रुतीर्ब्रह्मा' इतिवाक्येभ्यः 'श्रावणी पौर्णमासी तु' इतिवाक्याच्च परैव ।

 [३]यत्तु--

"श्रवणः श्रावणं पर्व संगवस्पृग्यदा भवेत् ।
तदैवौदयिकं ग्राह्यं नान्यदौदयिकं भवेत्"

 इति सिङ्गाभट्टीयं वचनं तदपि संगवं संगवकालं सर्वं स्पृशतीति संगवस्पृक्, संगवमभिव्याप्याग्रे विद्यमा[४]नमित्यनायत्या लक्षणाध्याहारनिष्पन्नमर्थं स्वीकृत्य 'श्रावणी पौर्णमासी तु' इत्येतत्समानार्थकं कार्यम् ।

 पर्वनिर्णयवदेव हस्तनिर्णयोऽपि द्रष्टव्यः ।

 पौर्णमास्यां संक्रान्तिग्रहणादिसत्त्वे तु--

"उपाकर्म प्रकुर्वन्ति क्रमात्सामर्ग्यजुर्विदः ।
ग्रहसंक्रान्त्ययुक्तेषु हस्तश्रवणपर्वसु" इति स्मृत्यन्तरवचनेन,
"संक्रान्तौ ग्रहणे चैव सूतके मृतके तथा ।
गणस्नानं न कुर्वीत नारदस्य वचो यथा ॥
अथ चेद्दोषसंयुक्ते पर्वणि स्यादुपाक्रिया ।
दुःखशो[५]कामयग्रस्ता राष्ट्रे तस्मिन्द्विजातयः"


१४४
 
  1. ङ. र्तद्वया ।
  2. च. तो भा ।
  3. एतदुपरि क. पुस्तकटिप्पण्याम्--"पूर्वरार्योदयानन्तरं मुहूर्तादूर्ध्वं प्रवृत्ता पौर्णमासी द्वितीयोदयानन्तरं मुहूर्तद्वयादिपरिमिता भवति तत्र तैत्तिरीयैरुत्तरा, तैत्तिरीयान्ययाजुषैः पूर्वा ग्राह्येति सिद्धमिति पुरुषार्थचिन्तामणौ निर्गलितार्थः" इति ग्रन्थो वर्तते ।
  4. ङ. मानेत्येतादृशार्थकरणेन श्रा ।
  5. क. शोकभय ।