पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८२
भट्टगोपीनाथदीक्षितविरचिता-- [कृच्छ्रादीनां लक्षणानि]

 अत्र येषु नवदिनेषु भोजनं प्राप्तं तत्र पाणिपूरानं [१]नियम्यते । पाणिपूरमेकग्रासपरिमितमन्नम् ।

“एकैकं ग्रासमश्नीयाच्यहाणि(दहानि ) त्रीणि पूर्ववत् ।
त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रे चरन्द्विजः" इति मनूक्तेः।

 कच्छ्रलक्षणमपि तेनैवोक्तम्-

“कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिः(म्)" इति ।

 पत्रपुटकादिना ग्रासपरिमाणं कृत्वैकग्रासपर्याप्तं दुग्धमेकविंशतिदिनेष्वश्नीयात् ।

 प्राजापत्योक्तद्वाविंशत्यादिसंख्यया वा यावता प्राणधारणं भवति तावद्वेति मदनपारिजातः । पयोऽत्र जलम् ।

"चरेत्कृच्छ्रातिकृच्छ्रे तु पिबेत्तोयं तु शीतलम् " इति ब्रह्माण्डपुराणात् ।

 अभक्षः कृच्छ्रातिकृच्छ्र इति गौतमोक्तेश्चेति भवदेवः ।

 पराकलक्षणमाह याज्ञवल्क्यः-

“द्वादशाहोपवासेन पराकः परिकीर्तितः" इति ।

 मासोपवासकृच्छ्रमाह जाबालि:-

" अनश्नन्मासमेकं तु महापातकनाशनम् ' इति ।

यविककृच्छ्रमाह शङ्खः-

" गोपुरीपाद्यवानश्नन्मासमेकं समाहितः ।
व्रतं तु यावकं कुर्यात्सर्वपापापनुत्तये " इति ॥

तप्तकृच्छ्रमाह मनु:-

" तप्तकृच्छ् चरन्विप्रो जलक्षीरघृतानिलान् ।
प्रतिव्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः" इति ॥

स्मृत्यन्तरे तु-

" तप्तक्षीरवृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छू उदाहृतः” इत्युक्तम् ॥

 क्षीरादीनां परिमाणमुक्तं पराशरेण-

" षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत् ।
पलमेकं पिबेत्सर्पिस्तप्तकृच्छ्रो विधीयते " इति ॥

तप्तकृच्छ्रमुक्त्वा शङ्कलिखितौ-" एष एव शीतैः शीतकृच्छ्रः" इति ।

सांतपनमाह शङ्ख:-

"गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रे सांतपनं स्मृतम् " इति ।



  1. क. ख. ग. नियम्य ।