पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[कृच्छ्रादीनां लक्षणानि]
७८३
संस्काररत्नमाला

 यतिसांतपनमाह स एव--

"एतदेव त्र्यहाभ्यस्तं यतिसांतपनं स्मृतम्" इति ।

 यतिसांतपनमिति संज्ञामात्रम् । तेन न यतिमात्रस्यैवाधिकारः किं तु सर्वेषाम् ।

 महासांतपनमाह याज्ञवल्क्यः--

"पृथक्सांतपनद्रव्यैः षडहः सोपवासकः ।
[१]प्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतः" इति ॥

 यमः--

"एतान्येव च पेयानि एकैकं च द्व्यहं द्व्यहम् ।
अतिसांतपनं नाम श्वपाकमपि शोधयेत्" इति । द्वादशाहोऽयम् ।
"त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् ।
त्र्यहं दधि त्र्यहं क्षीरं त्र्यहं सर्पिस्ततः शुचिः" [इति] ॥

 ([२]पञ्चदशाहोऽयम् ।

 जाबालः--

"[३]षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् ।
त्र्यहं चोपवसेदन्त्यं महासांतपनं विदुः" ) इति ॥

 एकविंशत्यहोऽयम् ।

तुलापुरुषकृच्छ्रमाह शङ्खः--

" पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ।
उपवासान्तराभ्यासात्तुलापुरुष उच्यते" इति ॥

 आचाम ओदननिस्रावो मण्ड इति यावत् ।

वज्रकृच्छ्रमाहाङ्गिराः--

"गोमूत्रेण समायुक्तं यावकं[४] वोपयोजयेत् ।
एकाहेन तु कृच्छ्रोऽयमुक्तस्त्वङ्गिरसा स्वयम् ॥
सर्वपापहरो दिव्यो नाम्ना वज्र इति स्मृतः" इति ।

 पूर्वप्रक्रान्तदधितक्रापेक्षया विकल्पः ।

चान्द्रायणमाह यमः--

"वर्धयेत्पिण्डमेकैकं शुक्ले कृष्णे च ह्रासयेत् ।
एतच्चान्द्रायणं नाम यवमध्यं प्रकीर्तितम् ॥
एकैकं ह्रासयेत्पिडं शुक्ले कृष्णे च वर्धयेत् ।
एतत्पिपीलिकामध्यं चान्द्रायणमुदाहृतम् ॥



  1. ख. ग. ङ. च. तप्ताहेन ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थः क. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।
  3. अत्र क. पुस्तके "षट्त्वं कुशोदकसाहित्येनेति प्रायश्चित्तेन्दुशेखर उक्तम्" इति टिप्पणी ।
  4. ग. ङ. कं चोप ।