त्रींस्त्रीन्पिण्डान्समश्नीयान्नियतात्मा दृढव्रतः । |
शिशुचान्द्रायणमिति संज्ञामात्रम् । एवं यतिचान्द्रायणमित्यपि। यवपिपीलिकामध्ययोस्तिथिवृद्धौ ह्रासे वा ग्रासानामपि ह्रासवृद्धी ।
तथा च विष्णुः--
" ग्रासानास्याविकारमश्नीयात्तांश्चन्द्रकलाभिवृद्धौ क्रमेण |
सामान्यचान्द्रायणमाह विष्णुः--
"यथाकथंचित्पिण्डानां तिस्रोऽशीतीरश्नीयात्सामान्यचान्द्रायणे" इति । |
प्रतिदिनं संख्यानियमादरेण मासेन चत्वारिंशदुत्तरशतद्वयं ग्रासानश्नीयादित्यर्थः । पिपीलिकामध्ययवमध्यभिन्नचान्द्रायणेषु दिनान्तरेऽप्यारम्भो न प्रतिपद्येव ।
ग्रासपरिमाणमाह याज्ञवल्क्यः--
"तिथिवृद्ध्या चरेपिण्डाञ्छुक्ले शिख्यण्डसंमितान्" इति । शिखी मयूरः । |
चान्द्रायणं प्रकृत्य पराशरस्तु--"कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत्" इति ।
शङ्खस्तु--"आर्द्रामलकमात्रास्तु ग्रासा इन्दुव्रते स्मृताः" इति ।
इन्दुव्रतं चान्द्रायणम् । एतेषां च परिमाणानां शक्ताशक्तपरत्वेन व्यवस्था । एकादश्यादौ नित्यप्राप्त उपवासश्चान्द्रायणविधिना बाध्यते । एतस्य "धर्मार्थं च चरेदेतच्चन्द्रस्येति सलोकताम्" इति काम्यत्वात् । लशुनभक्षणादिनिमित्ते विहितत्वेन नैमित्तिकत्वाच्च । काम्यस्त्वेकादश्याद्युपवासोऽन्यद्वारा कारणीयः । प्रतिनिधिना कृतेऽपि फलप्राप्तेः कात्यायनादिभिरुक्तत्वात् । अयं चैकादश्याद्युपवासबाधो न सामान्यचान्द्रायणे, तत्र प्रतिदिनं ग्रासग्रहणनियमाभावात् ।
अथ संक्षेपेण प्रत्याम्नायाः ।
चतुर्विंशतिमते--
"कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् । |