पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८२
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( गर्भाधानकालः )
 

णीभूतस्य रजसः प्राबल्यादिति विज्ञानेश्वरप्रभृतयः । एवं युग्मायां रजोबाहुल्येऽपि स्त्र्येव पुरुषाकृतिर्भवतीत्यपि बोध्यम् । अत्र च षोडशदिनात्मकमृतुं निर्दिश्य चतुर्थदिवसानन्तरमेव पुत्राद्युत्पत्तिं वदताऽऽद्यचतुष्टयं वर्ज्यमिति सूचितम् ।

 तथा च याज्ञवल्क्यः--

"षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् ।
ब्रह्मचर्ये च पर्वाण्याद्याश्चतस्रो विवर्जयेत्" इति ॥

 युग्मास्वपि प्रतिषिद्धेतरास्वेव गच्छेत् ।

 ताश्चोक्ता मनुना--

- "तासामाद्याश्चतस्रस्तु निन्द्या एकादशी च या ।
त्रयोदशी च शेषाः स्युः प्रशस्ता दश रात्रयः" इति ॥

 एकादशीत्रयोदश्यावृतोर्न पक्षस्येति मदनपारिजाते ।

 यत्तु--"चतुर्थ्यां स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामाचम्योपह्वयते" ।

 इति गृह्योक्तं चतुर्थ्यां रात्रौ गमनं, यच्चाऽऽपस्तम्बोक्तं--

"चतुर्थीप्रभृत्याषोडशीमुत्तरां युग्मां प्रजानिःश्रेयसमृतृगमनमित्युपदिशन्ति" ।

 इति, यच्च हारीतोक्तं--

"चतुर्थेऽहनि स्नातायां युग्मासु च गर्भाधानं तदुपेतं ब्रह्मगर्भं सं[१][२]धाति" ।

 इति, तद्रजोनिवृत्तौ ज्ञेयम् ।

"स्नानं रजस्वलायास्तु चतुर्थेऽहनि शस्यते ।
गम्या निवृत्ते रजसि नानिवृत्ते कथंचन" इत्यापस्तम्बोक्तेः ।

"रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला" इति मनूक्तेश्च ।

 वस्तुतस्तु स्वसूत्रे स्पष्टतयोक्तस्य चतुर्थीगमनस्य स्मृत्या संकोचोऽत्यन्तानुचितः । तथा चानिवृत्तेऽपि रजसि चतुर्थ्यां गमनं भवत्येवेत्ययमेव कल्पः साधीयान् । मनुवचने साध्वी गमनार्हेति माधवः । एवं चानन्तरोक्ते मनुवचने चतुर्थीनिषेधो रजोनिवृत्तिसद्भावपरः । अनन्तरोक्ते हारीतवचने युग्मास्वित्यनेनैव चतुर्थीग्रहणे सिद्धे पृथगुपादानं मुख्यत्वद्योतनार्थमिति ज्ञेयम् । एतदपि रजोनिवृत्तावेव ।

 पर्वाणि वर्जयेदिति याज्ञवल्क्येनोक्तम् ।



  1. ड. संभवति ।
  2. क. ख. च. दधति ।