णीभूतस्य रजसः प्राबल्यादिति विज्ञानेश्वरप्रभृतयः । एवं युग्मायां रजोबाहुल्येऽपि स्त्र्येव पुरुषाकृतिर्भवतीत्यपि बोध्यम् । अत्र च षोडशदिनात्मकमृतुं निर्दिश्य चतुर्थदिवसानन्तरमेव पुत्राद्युत्पत्तिं वदताऽऽद्यचतुष्टयं वर्ज्यमिति सूचितम् ।
तथा च याज्ञवल्क्यः--
"षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । |
युग्मास्वपि प्रतिषिद्धेतरास्वेव गच्छेत् ।
ताश्चोक्ता मनुना--
- "तासामाद्याश्चतस्रस्तु निन्द्या एकादशी च या । |
एकादशीत्रयोदश्यावृतोर्न पक्षस्येति मदनपारिजाते ।
यत्तु--"चतुर्थ्यां स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामाचम्योपह्वयते" ।
इति गृह्योक्तं चतुर्थ्यां रात्रौ गमनं, यच्चाऽऽपस्तम्बोक्तं--
"चतुर्थीप्रभृत्याषोडशीमुत्तरां युग्मां प्रजानिःश्रेयसमृतृगमनमित्युपदिशन्ति" । |
इति, यच्च हारीतोक्तं--
इति, तद्रजोनिवृत्तौ ज्ञेयम् ।
"स्नानं रजस्वलायास्तु चतुर्थेऽहनि शस्यते । |
"रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला" इति मनूक्तेश्च । |
वस्तुतस्तु स्वसूत्रे स्पष्टतयोक्तस्य चतुर्थीगमनस्य स्मृत्या संकोचोऽत्यन्तानुचितः । तथा चानिवृत्तेऽपि रजसि चतुर्थ्यां गमनं भवत्येवेत्ययमेव कल्पः साधीयान् । मनुवचने साध्वी गमनार्हेति माधवः । एवं चानन्तरोक्ते मनुवचने चतुर्थीनिषेधो रजोनिवृत्तिसद्भावपरः । अनन्तरोक्ते हारीतवचने युग्मास्वित्यनेनैव चतुर्थीग्रहणे सिद्धे पृथगुपादानं मुख्यत्वद्योतनार्थमिति ज्ञेयम् । एतदपि रजोनिवृत्तावेव ।
पर्वाणि वर्जयेदिति याज्ञवल्क्येनोक्तम् ।