पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६८१
संस्काररत्नमाला
( गर्भाधानकालः )
 

तत्राप्यृतौ गच्छतो न ब्रह्मचर्यस्खलनदोषः । पर्वाणीति बहुत्वेनाष्टमीचतुर्दश्योर्ग्रहणमिति विज्ञानेश्वरः ।

 यस्तु हेमाद्रौ शिवरहस्ये--

"दिवा जन्मदिने चैव न कुर्यान्मैथुनं व्रती ।
श्राद्धं द[१]त्त्वा च भुक्त्वा च श्रेयोर्थी न च पर्वसु" ॥

 इति श्राद्धदानभोजनदिवसे स्त्रीगमननिषेधः सोऽनृतुविषयः । दर्शादौ तु न भवत्येव । पर्वणां पर्युदस्तत्वात् ।

"ऋतुस्नाता भवेन्नारी चतुर्थे दिवसे ततः ।
ऋतुकालस्तु निर्दिष्ट आषोडशदिनावधि ॥
तत्रायुग्मदिने स्त्री स्यात्पुमान्युग्मदिने भवेत्" ॥

 इति पाद्मीयशिवगीतास्थवचनव्याख्यानावसरे व्यङ्कटदीक्षितास्तु--

"यत्तु ऋतौ गच्छेदेवेति नियमस्य श्राद्धादौ ब्रह्मचर्यविधानस्य च परस्पर-
परिहारेण लब्धावकाशस्य सामान्यविशेषभावानापन्नस्यैकत्र प्रसक्तौ किं
बाध्यमिति संशये गच्छतोऽपि न ब्रह्मचर्यस्य भङ्ग इत्याशयेन ब्रह्मचर्ये
चेति मूलमिति विज्ञानेश्वरेण व्याख्यातं तच्चिन्त्यम् ।
'ऋतुकालनियुक्तोऽपि नैव गच्छेत्स्त्रियं क्वचित्' ।
इति श्राद्धप्रकरणस्थवृद्धमनुवचनविरोधात् । तस्मान्नाऽऽर्तवेऽपि दिवा
व्रजेदिति शङ्खलिखितस्मृतिं प्रति मूलतयोपन्यस्ते 'प्राणं वा एते प्रस्क-
न्दन्ति ये दिवा रत्यां संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ संयुज्यन्ते'
इत्याथर्वणश्रुतिवाक्य इव याज्ञवल्क्यस्मृतावपि ब्रह्मचर्योक्तिरर्थवादरू-
पेति माधवाचार्यप्रभृतीनां ग्रन्था एव प्रबलाः" इत्याहुः ।

 षोडशदिनरूपोऽवधिः षोडशदिनावधिस्तमभिव्याप्येत्याषोडशदिनावधि । तथा च रजोदर्शनदिनमारभ्य षोडशदिनात्मक ऋतुकालो निर्दिष्टः । शास्त्रकारैरिति शेषः । एवं स्थिते नारी चतुर्थदिवस ऋतुस्नाता भवेत् । ततश्चतुर्थदिवसानन्तरं तत्रर्तावयुग्मदिने पञ्चमादौ स्त्री स्याद्युग्मदिने षष्ठादौ पुमान्भवेत् । यद्यपि रजोबाहुल्यादिकं स्त्रीत्वादौ हेतुतयोक्तं तथाऽप्ययुग्मायां रजोबाहुल्ये युग्मायां शुक्रबाहुल्ये च तावदविरोध एव । यदा त्वयुग्मायां शुक्रबाहुल्यं तदा तु पुमानेव भवति किंतु स्त्र्याकृतिः । कालरूपनिमित्तकारणापेक्षयोपादानकार



८६
 
  1. ग. कृत्वा ।