तत्राप्यृतौ गच्छतो न ब्रह्मचर्यस्खलनदोषः । पर्वाणीति बहुत्वेनाष्टमीचतुर्दश्योर्ग्रहणमिति विज्ञानेश्वरः ।
यस्तु हेमाद्रौ शिवरहस्ये--
"दिवा जन्मदिने चैव न कुर्यान्मैथुनं व्रती । |
इति श्राद्धदानभोजनदिवसे स्त्रीगमननिषेधः सोऽनृतुविषयः । दर्शादौ तु न भवत्येव । पर्वणां पर्युदस्तत्वात् ।
"ऋतुस्नाता भवेन्नारी चतुर्थे दिवसे ततः । |
इति पाद्मीयशिवगीतास्थवचनव्याख्यानावसरे व्यङ्कटदीक्षितास्तु--
"यत्तु ऋतौ गच्छेदेवेति नियमस्य श्राद्धादौ ब्रह्मचर्यविधानस्य च परस्पर- |
षोडशदिनरूपोऽवधिः षोडशदिनावधिस्तमभिव्याप्येत्याषोडशदिनावधि । तथा च रजोदर्शनदिनमारभ्य षोडशदिनात्मक ऋतुकालो निर्दिष्टः । शास्त्रकारैरिति शेषः । एवं स्थिते नारी चतुर्थदिवस ऋतुस्नाता भवेत् । ततश्चतुर्थदिवसानन्तरं तत्रर्तावयुग्मदिने पञ्चमादौ स्त्री स्याद्युग्मदिने षष्ठादौ पुमान्भवेत् । यद्यपि रजोबाहुल्यादिकं स्त्रीत्वादौ हेतुतयोक्तं तथाऽप्ययुग्मायां रजोबाहुल्ये युग्मायां शुक्रबाहुल्ये च तावदविरोध एव । यदा त्वयुग्मायां शुक्रबाहुल्यं तदा तु पुमानेव भवति किंतु स्त्र्याकृतिः । कालरूपनिमित्तकारणापेक्षयोपादानकार
- ↑ ग. कृत्वा ।