पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पार्वणस्थालीपाकः]
६३३
संस्काररत्नमाला
( व्रतस्थस्य वर्ज्यावर्ज्यानि )
 

 मधुशब्देनात्र क्षौद्रं गृह्यते ।

 मद्यस्य तु--"न मद्यं ब्राह्मणः पिबेत्" इत्यनेनैव निषेधसिद्धेः । औपवस्तकं पर्वदिनम् ।

 कात्यायनोऽपि--

"लवणं मधु मांसं च क्षारा येन च हूयते ।
औपवस्ते न भुञ्जीत धान्यं रात्रौ न किंचन" इति ॥

 क्षारशब्देन यस्य भक्षणे लालोत्पद्यते तद्द्रव्यमुच्यते । येन हूयत इत्यनेन यागसाधनत्वेन स्वीकृतं द्रव्यमपि न भक्षणीयमित्युक्तं भवति ।

 वाधूलबौधायनवैखानसाः--

"सर्वमेवैतदहः कोशीधान्यं वर्जयेदन्यत्र तिलेभ्यः" इति ।

 तिलवन्मुद्गानामपि ग्राह्यत्वमुक्तं कात्यायनेन--

तिलमुद्गादृते शैब्यं सस्ये गोधूमकोद्रवौ ।
चणकं देवधान्यं च सर्वशाकं तथैक्षवम् ॥
सर्जिक्षारं यवक्षारं टङ्कणक्षारमेव च ।
व्रतस्थो वर्जयेन्नित्यं सामुद्रं लवणं तथा" इति ॥

 अत्र सामुद्रस्योपादानात्सैन्धवमानसादेरनिषेधः प्रतीयते । तस्य हविष्यत्वात् ।

 तथा चोक्तम्--

"मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।
अक्षारं लवणं चैव प्रकृत्या हविरुच्यते" इति ॥

 अक्षारलवणं सैन्धवमिति सर्वनिबन्धकाराः ।

 ब्रह्मपुराणेऽपि--

"सैन्धवं लवणं चैव यच्च मानससंभवम् ।
पवित्रे परमे ह्येते प्रत्यक्षमपि सर्पिषा" इति ॥

 छन्दोगपरिशिष्टे कात्यायनः--

"पूर्णमास्याममायां च अधःस्वापो विधीयते ।
अनाहिताग्नेरप्येष पश्चादग्नेर्विधीयते" इति ॥

 बौधायनः--

"पर्वसु न चाधीयीत न स्त्रियमुपेयात्पर्वसु
रक्षःपिशाचान्यभिचारवन्ति भवन्ति" इति ।


८०