सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३२
भट्टगोपीनाथदीक्षितविरचिता-- [पार्वणस्थालीपाकः]
( पर्वनिर्णयः )
 

नित्यमत ऊर्ध्वमेवं पर्वस्वित्येतावतैव सिद्ध आग्नेयेन स्थालीपाकेन यजत इति वचनमाग्नेयेन स्थालीपाकेन यजत एव नर्षभदानमितिनियमार्थम् ।

 अथेतिकर्तव्यता धर्मसूत्रे--

"पर्वसु चोभयोरुपवास औपवस्तमेव कालान्तरे भोजनं तृप्तिश्चान्नस्य
यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयातामधश्च शयीयातां मैथुन-
वर्जनं च श्वोभूते स्थालीपाकः" इति ।

 पक्षसंधिः पर्व । इह तद्युक्तमहर्गृह्यते । तेषु पर्वसूभयोर्दंपत्योरुपवासो भोजनलोपः । कालयोर्भोजनमित्येतत्पूर्वतनसूत्रात्--

 "सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम्" इति श्रुतेश्चाविशेषेणोभयोरपि कालयोर्भोजनप्राप्तावाह--औपवस्तमिति । यत्कालान्तर एककाले भोजनं तदप्यौपवस्तमेवोपवास एव । तदपि दिवा न रात्रौ । श्रौते तथा दर्शनात् । "नैतां रात्रिमश्नाति" इति । चकारोऽनुक्तसमुच्चयार्थः । पर्वसु यदेककाले भोजनं तत्र यावत्तृप्त्यन्नं भुञ्जीयाताम् । धान्यव्यञ्जनादिषु मांसलवणादिवर्जं यदेनयोर्दंपत्योर्मनसः प्रियं स्यात्तदेतस्मिन्नहनि पर्वदिने भुञ्जीयाताम् अधो भूमौ न खट्वादौ । मैथुनवर्जनमप्येतस्मिन्नहनि कुर्याताम् । श्वोभूते द्वितीयेऽहनि पात्रासादनमारभ्य स्थालीपाकः कार्य इति व्याख्यातमुज्ज्वलाकृता । पात्रासादनमारभ्येत्यनेन पात्रासादनपूर्वतनं कर्म पूर्वस्मिन्नहनि कर्तव्यमिति बोध्यते । छान्दोग्यगोभिलगृह्ये विशेषः--

 "न प्रवसन्नुपवसेदित्याहुः पत्न्या व्रतं भवतीति यथा कामयेत तथा कुर्यात्" इति ।

 एतदप्यशक्तौ स्वीकार्यम् । पर्वणि वर्ज्यान्पदार्थानाह भरद्वाजः--

"विवर्जयेद्यक्ष्यमाणः स्त्रीतैलामिषवृक्षजम् ।
कलहं विक्रयं चैव प्रहासं बहुभाषणम् ॥
तौर्यत्रिकं वृथाशय्यां परान्नमनृतं तथा" इति ॥

 आमिषं मांसं माषादिकं च । वृक्षजो निर्यासः । स च श्वेतोऽप्यत्र निषिद्धः । 'य एव लोहितो यो वा व्रश्चनान्निर्येषति तस्य नाऽऽश्यं काममन्यस्य' इति श्रुतिस्तु व्रतातिरिक्ताशने श्वेतनिर्यासाभ्यनुज्ञापरा । तौर्यत्रिकं वाद्यम् । अनृतवदनस्य सामान्यतो निषेधे सिद्धे पुनर्निषेधः कर्माङ्गत्वार्थः । तेन श्रौतं प्रायश्चित्तमत्र कार्यम् ।

जाबालिः--

"शाकं मांसं मसूरं च चणकान्कोद्रवांस्तथा ।
माषान्मधु परान्नं च वर्जयेदौपवस्तके" इति ॥