यदा पूर्वेद्युरमावास्या यावद्धटिका परेद्युः प्रतिपदपि तावद्धटिका तत्र यथा[१]स्थित एव संधिर्ज्ञेयः । यदा तु प्रतिपदः क्षयः पर्वणो वृद्धिस्तदा वृद्ध्यर्धं प्रतिपदि संयोज्य संधिर्ज्ञेयः । यदा तु पर्वणः क्षयः प्रतिपदो वृद्धिस्तदा वृद्ध्यर्धं पर्वणि प्रक्षिप्य संधिं कल्पयेत् । तत्र ह्रासवृद्धिसमीकरणेनाऽऽवर्तने तत्पूर्वं वा यदि संधिस्तदा तस्मिन्नहन्येव यागः । परतः संधिश्चेत्परेऽहनि याग इति ।
पर्वमध्य इष्टिसमापननिषेध उक्तो मनुना--
"प्रतिपद्यप्रविष्टायां यदि त्विष्टिः समाप्यते । |
विशेषो निर्णयप्रदीपे गोभिलेनोक्तः--
"आवर्तनेऽथवा तत्प्राग्यदि पर्व समाप्यते । |
एतस्माद्वचनाज्ज्ञायते । आवर्तनादूर्ध्वं संधौ नैतत् । तथा च पूर्वमेव द्विजाशनं भवति । गृह्याग्नेर्नायं नियम इति मदनपारिजाते ।
अथ स्थालीपाकविषये गृह्यसूत्रम्--
"नित्यमत ऊर्ध्वं पर्वस्वाग्नेयेन स्थालीपाकेन यजते" इति । |
अतो गृहप्रवेशस्थालीपाकादूर्ध्वमनन्तरं नित्यं पर्वसु आग्नेयेन स्थालीपाकेन यजते । अत ऊर्ध्वमितिवचनं दीर्घत्वादध्वनोऽन्यथा वा प्रागागतेऽपि पर्वणि स्थालीपाको मा भूदिति । एतेनेदमपि ज्ञातं भवति प्रागपि चतुर्थीहोमादागते पर्वणि तु भवेदेवेति । अन्तरेणापि नित्यत्वे सिद्धे नित्यमितिवचनं यावज्जीवार्थं द्वात्रिंशद्वर्षाणि कृत्वोत्सर्गो मा भूदिति । कः प्रसङ्ग उत्सर्गस्येति चेत् । दर्शपूर्णमासभक्तत्वादस्य[द्वा]त्रिंशद्वर्षता यावज्जीविकतया विकल्पत इत्याशङ्क्येत । एतच्च प्रज्ञापयति पर्वण्युपोष्य प्रतिपदि क्रियां पौर्णमास्यामारम्भं च ।
तदुक्तं बह्वृचैः--
"तस्य दर्शपूर्णमासाभ्यामुपवास इध्माबर्हिषोश्च संनहनम्" इति । |
धर्मेषु चैतदेव वक्ष्यति--
- "पर्वसु चोभयोरुपवासः" इति प्रकृत्य "श्वोभूते स्थालीपाकः" इति ।
- "पर्वसु चोभयोरुपवासः" इति प्रकृत्य "श्वोभूते स्थालीपाकः" इति ।