सूत्रे--"पौर्णमास्यां प्रातराशे जायापती सर्पिर्मिश्रमश्नीतो यदन्यन्मा-
- षेभ्यश्च न सुहितौ स्यातां प्राग्वत्सापाकरणादमावास्यायां
- कामं सुहितौ स्याताम्" इति ।
- षेभ्यश्च न सुहितौ स्यातां प्राग्वत्सापाकरणादमावास्यायां
सुहितौ तृप्तौ । पौर्णमास्यां न सुहितौ स्याताममावास्यायां तु सुहितावपि स्यातामितीत्थं यो विशेषः स न स्थालीपाके । तृप्तिश्चान्नस्येत्यविशेषेणोक्तत्वात् । सर्पिर्मिश्रितमेवाशनं कर्तुमशक्तेन दधिमिश्रितं वाऽप्यशितव्यम् । दध्ना पयसा वेत्यापस्तम्बवचनात् । अयं च रागप्राप्त एव नित्येऽशने सर्पिरादिनियमः क्रत्वर्थो विधीयते । अशनं तु पुरुषार्थमेव । तेनासामर्थ्यादिना यद्यशनं कर्तुं न शक्यते तदा नियमानुग्रहार्थमशनं न कर्तव्यमिति पितृभूतिः ।
भर्तृस्वाम्यप्याह--
- "अशनं क्षुत्प्रतिघातार्थं, तस्यास्मिन्काले नियमः सत्यामिच्छायामतो
- नाऽऽवर्तत इष्टिबहुत्वे" इति ।
बह्वीनां पत्नीनाममुख्याऽनालम्भुका चेत्तदा यागः कर्तव्य एव । ज्येष्ठा चेदनालम्भुका तदा न यागः कर्तव्यः ।
तदुक्तं हेमाद्रौ गौतमेन--
"यजनीयेऽह्नि संप्राप्ते यस्य भार्या रजस्वला । |
वसिष्ठोऽपि--
"बह्वीनामपि पत्नीनां ज्येष्ठा चेद्रजसाऽन्विता । |
कनिष्ठामपरुध्य यागः कर्तव्य इति त्वर्थात्सिद्धं भवति ।
अस्ति च पाद्मं वचनम्--
"बह्वीनामेकपत्नीनां कनिष्ठा रजसाऽन्विता । |
ज्येष्ठातोऽन्याः सर्वा अपि कनिष्ठशब्देन ग्राह्याः । न त्वन्तिमैव ।
- अत एव--
"बह्वीनामपि पत्नीनाममुख्या रजसान्विता । |
इति स्मृत्यन्तरेऽमुख्येत्युक्तम् ।
ज्येष्ठपत्न्या मुख्यत्वं तु पाद्म उक्तम्--
"ज्येष्ठा पत्नी तु मुख्या स्याद्यज्ञे दानेऽर्चने गृहे । |