कौर्मेऽपि--
"ज्येष्ठपत्न्या विरहितं कृतं यत्तु जनाधिप । |
वसिष्ठोऽपि--
"ज्येष्ठया सह कर्माणि कुर्याद्यत्नेन भूपते । |
ज्येष्ठपत्न्या राहित्येन कर्मकरणे यो दोष उक्तः स तस्या विद्यमानत्वे द्रष्टव्यः । ज्येष्ठायां मृतायां विद्यमानासु या ज्येष्ठा सा मुख्यत्वेन द्रष्टव्या । एवं च विद्यमानज्येष्ठाव्यतिरिक्ताः पत्नीरपरुध्यापि यागः कर्तव्य इति सिद्धं भवति । एतेन बह्वीनां पत्नीनामेकाऽप्यृतुमती चेन्न यागः कार्य इति परास्तम् ।
एतच्च प्रथमप्रयोगव्यतिरिक्ते--
"प्रक्रान्तमग्निहोत्रादि कर्म यच्छ्रुतिचोदितम् । |
इति कात्यायनवचने प्रक्रान्तमिति श्रवणात् ।
"ज्येष्ठा वाऽथ कनिष्ठा वा पत्नी यदि रजस्वला । |
इति स्मृत्यन्तरेऽभिधानाच्च ।
प्रक्रान्तमारब्धमेकवारमनुष्ठितमिति व्याख्यातारः । ये तु प्रारब्धं संकल्पादिना प्रक्रान्तमित्यर्थं वदन्ति तन्मते संकल्पोत्तरं प्रथमप्रयोगेऽप्युपरोध इति द्रष्टव्यम् ।
अथ प्रयोगः ।
कर्ता शुक्लचतुर्दश्यां प्रातरौपासनहोमानन्तरमौपासनाग्नेः पश्चात्सपत्नीक उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य सत्यधिकारे यावज्जीवं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति संकल्पं कुर्यात् । दर्शपूर्णमासेष्ट्यारम्भोत्तरं न पार्वणस्थालीपाकावित्येतन्मतमेव स्त्री क्रियत इति निश्चिते सति सत्यधिकारे दर्शपूर्णमासेष्ट्यारम्भपूर्वतनकालपर्यन्तं दर्शपूर्णमासस्थालीपाकाभ्यां यक्ष्य इति संकल्पे विशेषः ।
ततो गणपतिपूजनादिनान्दीश्राद्धान्तं कुर्यात् । अत्राग्निः प्रीयतामिति विशेषः । अथवा प्रधानसंकल्पात्पूर्वमेव गणपतिपूजनपुण्याहादिवाचनमातृकापूजननान्दीश्राद्धानि कृत्वाऽनन्तरं प्रधानसंकल्पः कार्यः ।
तत आरम्भार्थं चतुर्होतृसारस्वतहोमावन्वारम्भणस्थालीपाकं च कुर्यात् ।
- ↑ ग. स्यान्नाप ।