मधुशब्देनात्र क्षौद्रं गृह्यते ।
मद्यस्य तु--"न मद्यं ब्राह्मणः पिबेत्" इत्यनेनैव निषेधसिद्धेः । औपवस्तकं पर्वदिनम् ।
कात्यायनोऽपि--
"लवणं मधु मांसं च क्षारा येन च हूयते । |
क्षारशब्देन यस्य भक्षणे लालोत्पद्यते तद्द्रव्यमुच्यते । येन हूयत इत्यनेन यागसाधनत्वेन स्वीकृतं द्रव्यमपि न भक्षणीयमित्युक्तं भवति ।
वाधूलबौधायनवैखानसाः--
"सर्वमेवैतदहः कोशीधान्यं वर्जयेदन्यत्र तिलेभ्यः" इति । |
तिलवन्मुद्गानामपि ग्राह्यत्वमुक्तं कात्यायनेन--
तिलमुद्गादृते शैब्यं सस्ये गोधूमकोद्रवौ । |
अत्र सामुद्रस्योपादानात्सैन्धवमानसादेरनिषेधः प्रतीयते । तस्य हविष्यत्वात् ।
तथा चोक्तम्--
"मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् । |
अक्षारलवणं सैन्धवमिति सर्वनिबन्धकाराः ।
ब्रह्मपुराणेऽपि--
"सैन्धवं लवणं चैव यच्च मानससंभवम् । |
छन्दोगपरिशिष्टे कात्यायनः--
"पूर्णमास्याममायां च अधःस्वापो विधीयते । |
बौधायनः--
"पर्वसु न चाधीयीत न स्त्रियमुपेयात्पर्वसु |