पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ब्रह्मचारिनियमाः]
२९५
संस्काररत्नमाला ।

 तथा च कालादर्शे--

"मातापित्रोरुपाध्यायाचार्ययोरौर्ध्वदेहिकम् ।
कुर्यान्मातामहानां च व्रती न भ्रश्यते व्रतात्" ॥

 इति संवर्तः । तस्य कर्मलोपो नास्ति ।

 तथा च चन्द्रिकायाम्--

"पित्रोर्गुरोर्विपत्तौ तु ब्रह्मचार्यपि यो नरः ।
सव्रतश्चापि कुर्वीत ह्यग्निपिण्डोदकक्रियाम् ॥
तेनाशौचं न कर्तव्यं संध्या चैव न लुप्यते ।
अग्निकार्यं च कर्तव्यं सायं प्रातश्च नित्यशः" इति ॥

 यावत्पर्यन्तं तदीयं कर्म करोति तावत्पर्यन्तमाशौचमस्त्येव ।

"ब्रह्मचारी यदा कुर्यात्पिण्डनिर्वपणं पितुः ।
तावत्कालमशौचं स्यात्पुनः स्नानेन शुध्यति" ॥

 इति प्रजापतिवचनात् । अपरार्कमाधवादयस्त्वेकाहमाशौचमाहुः ।

 उदाहरन्ति च वचनम्--

"आचार्यं वाऽप्युपाध्यायं गुरुं वा पितरं च वा ।
मातरं वा स्वयं दग्ध्वा व्रतस्थस्तत्र भोजनम् ॥
कृत्वा पतति नो तस्मात्प्रेतान्नं तत्र भक्षयेत् ।
अन्यत्र भोजनं कुर्यान्न च तैः सह संविशेत्" इति ॥

 अन्यत्र द्वितीयदिनमारभ्येत्यर्थः ।

"एकाहमशुचिर्भूत्वा द्वितीयेऽहनि शुध्यति" इति ब्राह्मोक्तेः ।

 यत्तु--

"गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत् ।
प्रेताहारैः समं तत्र दशरात्रेण शुध्यति" ॥

 इति वचनं तत्तदन्नभोजनविषयम् । प्रेताहारैस्तदन्नभोजनैः । और्ध्वदेहिककर्मकरणे कर्त्रन्तरसद्भावे तु पित्रादिमरणेऽप्याशौचाभाव एव । ब्रह्मचारिणा मृतसपिण्डानां समावर्तनोत्तरं मृतक्रमेणोदकदानं सर्वाशौचस्थानापन्नं त्रिरात्रमाशौचं च कार्यम् । न तु समावर्तनात्पूर्वमुदकदानाशौचे ।

 तथा च मनुः--

"आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
समाप्ते तूदकं दत्त्वा त्रिरात्रमशुचिर्भवेत्" इति ॥