शुश्रूषायाः फलमाहतुर्देवलबौधायनौ--
"यथा खनन्खनित्रेण नरो वार्यधिगच्छति । |
अकरणे दोषमाह यमः--
"यथाऽन्नं विषसंयुक्तं विषं चान्नेन संयुतम् । |
अत्रोपायान्तरमाह नारदः--
"गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । |
स्मृत्यन्तरे--
"नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् । |
जैमिनिः--
"यावद्ब्रह्मोपदेशस्तु तावत्संध्यादिकं च न । |
ब्रह्म गायत्री । संध्यादिकमित्यादिशब्दाद्ब्रह्मयज्ञो गृह्यते । सोऽपि तदहःप्रभृति संध्योपासनानन्तरं यावत्पर्यन्तं किंचिदधीतं न भवति तावत्पर्यन्तं प्रत्यहं गायत्र्या कर्तव्य इति तात्पर्यार्थः । ब्रह्मचारिणा कस्यापि शववाहनादिक्रिया न कर्तव्याः । करणे कृच्छ्रात्मकं प्रायश्चित्तं पुनरुपनयनं च ।
तथा च देवलः--
"ब्रह्मचारी न कुर्वीत शववाहादिकाः क्रियाः । |
आदिपदमलंकारादेर्ग्राहकं न तु दाहादेः । तत्र प्रायश्चित्तस्य गुरुत्वात् । लोभहेतुकक्रियायाः सामान्यवचनेनैव निषेधे सिद्धे ब्रह्मचारिणं प्रति पुनर्निषेधो धर्मार्थक्रियाया अपि निषेधार्थः । अन्यथा वैयर्थ्यात् ।
मनुरपि--
"आचार्यं स्वमुपाध्यायं मातरं पितरं गुरुम् । |
मिताक्षरायां गालवः--
"गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरेत् । |
एतच्च मातृपित्रुपाध्यायाचार्यमातामहव्यतिरिक्तविषयम् ।