पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ब्रह्मचारिनियमाः]
२९३
संस्काररत्नमाला ।

द्यूतमक्षक्रीडा । जनवादो देशवार्ता ।

गौतमः--"गुरुसमीपे कण्ठप्रावृत्त्यावसक्थिकापाश्रयणपाद-
प्रसारणनिष्ठीवनविजृम्भणहसितावस्फोटनानीति वर्जयेत्" इति ।

 कण्ठप्रावृत्तिर्वस्त्रेण कण्ठाच्छादनम् । आवसक्थिका योगपट्टः । तस्यापाश्रयणं कठ्यादिषु संश्रयणम् । निष्ठीवनं लालाविसर्जनम् । अवस्फोटनं भुजास्फालनादि ।

 हारीतः--

"हयरथगजचैत्यवृक्षवृषभारोहणमहानद्यवतरणमहा-
साहसानि वर्जयेत्" इति ।

 गोभिलः--"अवलेखनदन्तप्रक्षालनपादप्रक्षालनादि वर्जयेत्" इति ।

 अवलेखनं कङ्कतादिना शिरोगतकेशप्रसाधनम् । पादप्रक्षालनमुद्वर्तनपूर्वकं पादेन वा पादस्य ।

 बौधायनधर्मसूत्रे--

"मूत्रपुरीषे नावेक्षेतामेध्यं दृष्ट्वा जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो
ज्योतिषा श्रेष्ठो दीक्षे मा मा हासीः" इति ।

 एतच्च गृहस्थादिसाधारणं ज्ञेयम् ।

 पराशरीयप्रायश्चित्तकाण्डे--

"गुरुं हुंकृत्य तुंकृत्य विप्रं निर्जित्य वादतः ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः" इति ॥

 तस्य प्रायश्चित्तमाह बौधायनः--

"वादेन ब्राह्मणं जित्वा प्रायश्चित्तविधित्सया ।
त्रिरात्रोपोषितः स्नात्वा प्रणिपत्य क्षमापयेत्" इति ॥

 अत्र वादग्रहणं हुंकारतुंकारच्छलोपलक्षणम् ।

 छललक्षणमक्षपादेन गौतमेन न्यायसूत्रे प्रथमाध्याय उक्तम्--

"वचनविघातोऽर्थविकल्पोपपत्त्या छलनम्" इति ।

 अभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरं प्रकल्प्य दूषणाभिधानम् । यथा नवकम्बलोऽयं देवदत्त इति वाक्यस्य नूतनाभिप्रायेण प्रयुक्तस्यार्थान्तरं कल्पयित्वा दूषणदानम् । नास्य नवकम्बलाः सन्ति दरिद्रत्वात् । न ह्यस्य द्वित्वमपि संभाव्यते कुतोऽस्य नवेति । वाक्छलं सामान्यच्छलमुपचारच्छलमिति त्रैविध्यं छलस्य । तल्लक्षणानि तत्रैव द्रष्टव्यानि ।