गुरवः समवेता भवन्ति तदा भिक्षायामुत्पन्नायां यं गुरुमिदानीमनुबन्धो यतोऽधीते तदधीना भिक्षेति व्याख्यातमुज्ज्वलाकृता ।
अन्यच्च--"समावृत्तो मात्रे दद्यान्माता भर्तारं गमयेद्भर्ता गुरुम्" इति ॥ |
कृतसमावर्तनो विवाहात्प्रागर्जितं मात्रे दद्यात् । माता भर्तारं गमयेत्पतिं प्रापयेत् । स च गुरुं माणवकस्येति शेष इति व्याख्यातं तेनैव ।
बृहस्पतिः--
"अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । |
ब्राह्मणकाम्या ब्राह्मणेच्छा ।
याज्ञवल्क्यः--
"मधुमांसाञ्जनोच्छिष्टशुक्लस्त्रीप्राणिहिंसनम् । |
मधु क्षौद्रम् । मद्यनिषेधस्य तु सामान्यनिषेधेनैव सिद्धत्वात् । मांसं प्रोक्षिताद्यप्यत्र निषिध्यते । अञ्जनं कज्जलादिनाऽक्ष्णोः । एतच्चाभ्यञ्जनोपलक्षणम् । तेन तैलादिना गात्राणामभ्यङ्गोऽपि निषिद्धः । एतदपि वैद्योपदेशादृते । औषधस्याव्रतघ्नत्वात् । अत्रोच्छिष्टनिषेधो व्याधिराहित्ये ज्ञेयः ।
स चेद्व्याधित इत्युदाहृतवसिष्ठवाक्यात् ।
"गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः" |
इत्युदाहृतकूर्मपुराणवाक्याच्च ।
शुक्लं निष्ठुरवाक्यम् ।
"शुक्ला वाचो विवर्जयेत्" इति गौतमोक्तेः । |
उदयेऽस्तमये च भास्करावलोकनं न कार्यं, तदुक्तं धर्मसूत्रे--
"उद्यन्तमस्तं यन्तमादित्यं दर्शने विवर्जयेत्" इति । |
उदयसमयेऽस्तसमये चाऽऽदित्यं न पश्येदित्यर्थः ।
मनुरपि--
"नेक्षेतोद्यन्तमादित्यमस्तं यन्तं कदाचन । |
अश्लीलं मर्मभाषणम् । परिवादो निन्दा । आदिशब्देन परिहासादि ।
- यमः--
"खट्वासने च शयनं वर्जयेद्दन्तधावनम् । |
- मनुः--
"द्यूतं च जनवादं च परिहासं तथाऽनृतम् । |