पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९६
[काण्डव्रतानि]
भट्टगोपीनाथदीक्षितविरचिता--

 आदिष्टी ब्रह्मचारीति मिताक्षरायां व्याख्यातम् ।

 याज्ञवल्क्योऽपि--

"न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा" इति ।

 ब्रह्मचारिणो मृतोद्देशेनोदकदानमपि नैव कुर्युः । एवं पतिता अपि नैव कुर्युरिति । पतिताः प्रच्युतद्विजातिकर्माधिकाराः । ततश्च ब्रह्मचर्यदशायां सपिण्डमरणे सति समावर्तनानन्तरं त्रिरात्रमशुचित्वाद्विवाहो मातापित्रनुज्ञायां सत्यामपि न भवति । उदकदानसाहचर्यान्मृताशौचविषय एवैतत् ।

इति संक्षेपेण ब्रह्मचारिधर्माः ।

अथ काण्डव्रतानि ।

 तत्र श्रावण्यां पौर्णमास्यां प्रथममध्यायोपाकर्म कृत्वा तत्पूर्वमपि वा वक्ष्यमाणे विद्यारम्भानुकूले सुमुहूर्ते होमपूर्वकं प्राजापत्यकाण्डव्रतमुपाकृत्य तत्काण्डाध्ययनं कृत्वा तस्योत्सर्गं कुर्यात् । एवं सौम्यादिकाण्डव्रतेष्वपि ज्ञेयम् ।

 अथवा तन्त्रेण सर्वाणि काण्डव्रतान्युपाकृत्य यथाशक्ति व्रतमाचरन्सर्वाणि काण्डान्यधीत्य तन्त्रेण तानि व्रतान्युत्सृजेत् ।

 यदि तु सारस्वतपाठेनाध्ययनं तदा तन्त्रेणैवोपाकरणं कार्यमुत्सर्जनमप्येवम् । आरम्भसमाप्तिरूपे उपाकरणोत्सर्जने काण्डाध्ययनव्रतयोः पृथङ्न भवतः । काण्डव्रतानां काण्डाध्ययनाङ्गत्वेनाध्ययनार्थाभ्यामुपाकरणोत्सर्जनाभ्यामेव सिद्धेः । असमाप्ते काण्डेऽध्यायोत्सर्गकाल आगतेऽध्यायमुत्सृज्य विरम्य पुनरध्यायमुपाकृत्य काण्डं यथाकालमुपाकृत्याधीत्य काण्डं यथाकालमुत्सृज्य विरमितव्यम् । काण्डानां संकीर्णत्वेन यथाकाण्डमिदानीमध्ययनासंभवात्काण्डानुक्रमणिकायां सारस्वतपाठस्याप्यभ्यनुज्ञातत्वाच्च सारस्वतपाठेनैवेदानीमध्ययनमस्ति । उपाकरणोत्सर्जनयोरारम्भसमाप्तिरूपयोस्तन्त्रं नैव भवति । स्वरूपविरोधात् । अत्र सर्वमाचार्यकर्तृकम् । यावदुक्तं ब्रह्मचारी ।

 अथ सारस्वतपाठेनाध्ययनेऽपि काण्डपरिज्ञानस्याऽऽवश्यकत्वात्तदर्थं काण्डानुक्रमण्यनुसारेण काण्डान्युच्यन्ते ।

 काण्डपरिज्ञानस्याऽऽवश्यकत्वं तु--

"अपि सारस्वते पाठे ज्ञानमात्रमिहोच्यते"