पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्राजापत्यादिकाण्डानामनुक्रमणी]
२९७
संस्काररत्नमाला ।

 इत्यनेनोक्तं, सारस्वतपाठेऽपि काण्डानुक्रमविषयकमदृष्टार्थं ज्ञानमात्रमिष्यत एव बुधैरिति तात्पर्यार्थः । एतस्मादेव वचनात्सारस्वतपाठोऽप्यस्तीति ज्ञायते ।

अथ काण्डानि ।

तानि च बौधायनगृह्यकाण्डानुक्रमणसूत्रयोरुक्तानि ।

तत्र प्राजापत्यं काण्डम् ।

 इषे त्वेतिप्रश्न उत्तमानुवाकवर्जम् । तृतीयस्यां प्रत्युष्टमिति प्रश्नद्वयम् । मम नामेत्येतस्यानुवाकस्य पयस्वतीरोषधय इत्यादिः शेषः । सं त्वा सिञ्चामीति प्रश्न उत्तमानुवाकवर्जम् । पाकयज्ञमित्यादयो द्वितीयानुवाकवर्जं पञ्चानुवाकाः । सशान्तिकाश्चित्तिः स्रुगित्यादयस्त्रयोदशानुवाकाः । प्रजापतिर्ब्रह्मवादिन इति द्वितीयकाण्डब्राह्मणान्तर्गतं प्रश्नद्वयम् । सत्यं प्रपद्य इति प्रश्नः । देवा वै नर्चिनेत्यादयश्चत्वारोऽनुवाकाः । निवीतं मनुष्याणामित्यारभ्य मनुष्यलोकं चाभिजयतीत्यन्तोऽनुवाकः । स श्रवा इत्यनुवाकः । मनुः पृथिव्या इत्यादयश्चत्वारोऽनुवाकाः । विश्वरूपो वै त्वाष्ट्र इत्यादयः षडनुवाकाः । देवा वै सामिधेनीरनूच्येत्यादिर्निवीतमित्येतस्यानुवाकस्य शेषः । समिधो यजतीत्यादयः षडनुवाकाः । इन्द्रो वृत्र हत्वेत्यनुवाकः । सशान्तिकः परे युवा समिति प्रश्नः । इति प्राजापत्यकाण्डम् ।


अथ सौम्यकाण्डम् ।

 आप उन्दन्तु देवस्य त्वेति प्रश्नद्वयमुत्तमानुवाकवर्जम् । पवमानः सुवर्जन इत्यनुवाकः । ब्रह्म संधत्तमित्यनुवाकः । आददे ग्रावेतिप्रश्न उत्तमानुवाकवर्जम् । चित्तिः स्रुगिति प्रश्नान्तर्गतस्तरणिरित्यनुवाकः । प्राचीनव शमिति प्रश्नषट्कम् । प्रजननमित्यादयस्त्रयोऽनुवाकाः । देवासुराः स प्रजापतिरिन्द्रमित्यादयश्चत्वारोऽनुवाकाः । उभये वा एते ब्रह्मवादिनो वदन्ति कति पात्राणीत्यनुवाकद्वयम् । देव सवितः प्रसुवेत्यादयः षडनुवाकाः । देवा वै यथादर्शमित्यादयोऽष्टानुवाकाः । त्रिवृत्स्तोम इति प्रश्नः । सशान्तिकौ युञ्जते मनो देवा वै सत्रमासतेति प्रश्नौ । इति सौम्यकाण्डम् ।

अथाऽऽग्नेयकाण्डम् ।

 घर्मः शिर उद्धन्यमानमित्यनुवाकौ । कृत्तिकास्वग्निमादधीतेत्यादयः पञ्चा