पृष्ठम्:श्रीसुबोधिनी.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
जन्मप्रकरणम्अध्यायः



 प्रादुरासं वरदराड् युवयोः कामदित्सया ॥
 व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः॥३८॥


 प्रादुरासमिति ॥ वरान् ददते इति वरदाः । अन्ये ब्रह्मादयो यावत्प्रार्थितमेव हि ते प्रयच्छन्ति । तेषां राजा वरदराट् । स तु ततो बहुगुणमलौकिकं च प्रयच्छति । अत एव मादृशमुतवरणे अहमेव वारत्रयं सुतो जात इति वरदराजः॥ आविर्भावे हेतुमाह ।। युवयोः कामदित्सयेति ॥ युक्योरिति, बहुकालतपस्तप्तौ निरूपितौ । ताभ्यां चाल्पमेव प्रार्थनीयम् । तपश्च बहु । अतो मनिष्ठयोस्तपः स्वाभाविकादपि तपसोऽधिकफलमिति तद्दानार्थं वरदराडुक्तः । साधारण्येनैव, व्रियतां वर इत्युक्तं तावपि मां साधारणं ज्ञात्वा बालकसौन्दर्येण च संमुग्धौ, त्वादृशः पुत्रो भूयादिति वृतवन्तावित्याह ॥ मादृश इति ॥ वां युवाभ्याम् ॥ सुतो भूयादित्यर्थात् ॥ ३८ ॥

 मोक्षावरणे हेतुमाह-


 अजुष्टग्राम्यविषयावनपत्यौ च दम्पती ।।
 न ववाथेऽपवर्गं मे मोहितौ मम मायया ॥ ३९ ॥


 अजुष्टेति ॥ ग्राम्यविषयः स्त्रीसंभोगो लौकिकः, प्रीतिः स्थितैव, सेवा न वृत्तेति । न जुष्टो ग्राम्यविषयो याभ्याम् । वैदिकेनापि लौकिकफलसिद्धिर्भवतीति तत्संभवेऽपि लौकिकसिद्धिरिति तनिषेधार्थमाह ॥ अनपत्याविति ॥ न विद्यते अपत्यं ययोः । चकारादन्येऽपि सगादयो नानुभूता इति सूचितम् ।




 ननु प्रीतिसेवनार्थत्वाज्जुषेरनयोः प्रीतिसत्त्वादजुष्टत्वं कथमितिचेत् सत्यम् । तथापि द्वितीयमर्थमादाय तथोक्तमित्याहुः ॥ सेवा न वृत्तेतीति। नन्वजुष्टत्वेऽनपत्यत्वं प्राप्तमेवेति कथनं तस्य किंप्रयोजनकमित्याशङ्क्य तत्तात्पर्यमाहुः॥ वैदिकेनापीति॥ अलौकिकप्रकारक-