प्रादुरासं वरदराड् युवयोः कामदित्सया ॥
व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः॥३८॥
प्रादुरासमिति ॥ वरान् ददते इति वरदाः । अन्ये
ब्रह्मादयो यावत्प्रार्थितमेव हि ते प्रयच्छन्ति । तेषां राजा
वरदराट् । स तु ततो बहुगुणमलौकिकं च प्रयच्छति ।
अत एव मादृशमुतवरणे अहमेव वारत्रयं सुतो जात इति
वरदराजः॥ आविर्भावे हेतुमाह ।। युवयोः कामदित्सयेति ॥
युक्योरिति, बहुकालतपस्तप्तौ निरूपितौ । ताभ्यां चाल्पमेव
प्रार्थनीयम् । तपश्च बहु । अतो मनिष्ठयोस्तपः स्वाभाविकादपि
तपसोऽधिकफलमिति तद्दानार्थं वरदराडुक्तः । साधारण्येनैव,
व्रियतां वर इत्युक्तं तावपि मां साधारणं ज्ञात्वा बालकसौन्दर्येण
च संमुग्धौ, त्वादृशः पुत्रो भूयादिति वृतवन्तावित्याह ॥ मादृश
इति ॥ वां युवाभ्याम् ॥ सुतो भूयादित्यर्थात् ॥ ३८ ॥
मोक्षावरणे हेतुमाह-
अजुष्टग्राम्यविषयावनपत्यौ च दम्पती ।।
न ववाथेऽपवर्गं मे मोहितौ मम मायया ॥ ३९ ॥
अजुष्टेति ॥ ग्राम्यविषयः स्त्रीसंभोगो लौकिकः, प्रीतिः
स्थितैव, सेवा न वृत्तेति । न जुष्टो ग्राम्यविषयो याभ्याम् ।
वैदिकेनापि लौकिकफलसिद्धिर्भवतीति तत्संभवेऽपि
लौकिकसिद्धिरिति तनिषेधार्थमाह ॥ अनपत्याविति ॥ न विद्यते
अपत्यं ययोः । चकारादन्येऽपि सगादयो नानुभूता इति सूचितम् ।
ननु प्रीतिसेवनार्थत्वाज्जुषेरनयोः प्रीतिसत्त्वादजुष्टत्वं
कथमितिचेत् सत्यम् । तथापि द्वितीयमर्थमादाय तथोक्तमित्याहुः ॥
सेवा न वृत्तेतीति। नन्वजुष्टत्वेऽनपत्यत्वं प्राप्तमेवेति कथनं तस्य
किंप्रयोजनकमित्याशङ्क्य तत्तात्पर्यमाहुः॥ वैदिकेनापीति॥
अलौकिकप्रकारक-