पृष्ठम्:श्रीसुबोधिनी.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
श्रीमद्भागवतसुबोधिनीटिप्पणीदशमस्कन्धे


दम्पतीपदेनोभयोः सहभावो नियत उक्तः । अतोऽपि मोक्षस्याऽवरणं, रागस्यानिवृत्तत्वाऋणानामनिवर्तितत्वाद् विरुद्धाश्रमनिष्ठत्वाच्च मोक्षस्यावरणम् । सर्वत शास्त्रार्थपरिज्ञानेऽपि यदेतत्रितयं तत्र हेतुः- मोहितौ मम माययति ॥ इयं विशेषमाया भगवल्लीलासाधिका । साधारणीतु शास्त्रान्निवर्त्तत एव । अपवर्गं न च वव्राथे । जन्ममरणानां समाप्तिरपवर्गः । यदि साक्षादपवर्गमप्यप्रार्थयित्वा भक्तिं प्रार्थयेतं, तथाप्यपवर्गो भवेत् । साऽपि न प्रार्थितेति वै निश्चयेन अपवर्गों न प्रार्थितः । म इति पाठे मत्तो मत्संबन्धि वा । प्रमेयबलेनअपवर्गं नमाथितवन्तावित्यर्थः ॥३९॥




तनिषेधार्थक तदित्यर्थः । अजुष्टेत्यादिविशेषणतात्पर्याणि, रागस्येत्यादिना क्रमेणोक्तानि । ननु मोक्षाधिकविवक्षितलीलाऽमृताब्धिफलके मोक्षवरणपूर्वकहरिसदृशपुत्रवरणे मायामोहस्य हेतुत्वोक्तिभक्तिमार्गविरुद्धा, मोक्षस्य चैवमाधिक्यं भवेदित्यत आहुः ॥ इयं विशेषमायेत्यादि। तर्हि मदनुग्रहात्तन्न वव्राथ इति वक्तुं युक्तं, न त्वेवमितिचेद्, न । अनवबोधात् । प्रकटे भगवति ज्ञानशक्तेरपि प्रकटत्वेऽपि ब्रह्मत्वेन भगवत्त्वादिना च ज्ञानाभावो यः स न मोहम् ऋते । सथा ज्ञानं च लीलारसविरोधीति न तथाज्ञापनम् । नन्वयमप्यनुग्रहादेवेतिचेन्ननु मोहोऽप्यनुग्रहादेवेति बुद्ध्यस्व । तथाऽप्येवंविधेऽर्थे मोहोक्तिः कथं भक्तमनोरमा भवेत् । इत्थम् । अचिन्त्यांनन्तशतेर्भगवतो नियतकार्या हि ताः सर्वा लीला अप्यनेकविधाः। एवं सति याऽन्तरङ्गलीलायामेवाधिकृता सा तल्लीलास्थभक्तानां मध्ये यस्मिन् यादृशी लीला प्रभोश्चिकीर्षिता तस्मिंस्तदुपयोगिपदार्थेष्वासक्तिं तदतिरिक्तविस्मृतिं च करोतीत्येतन्मात्रसाधर्म्येणैतच्छक्तिकार्येऽपि मोहत्वोक्तिः। प्रकटे प्रभौ सर्वशक्तिप्राकट्येऽपि स्वानुरूपातिरिक्तज्ञानाद्यभावात् प्रमाणमार्गात् प्रमेयमार्गोऽतिविलक्षणो बलिष्ठश्चेति ज्ञापनाय च । अत एव, न न्यवर्तन्त मोहिता इति वक्ष्यते । न हि तत्रामोह उत्तम इति वक्तुं शक्यम् । निवृत्तिहेतुत्वात् । यथा यथैतन्मोहाधिक्यं तथा तथा पुष्टिमार्गे भावप्राचुर्यमिति ज्ञेयम् । अत एव